SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -४ - ३१३ अनन्तरं समुद्रा उक्तास्तेषु चावर्त्ता भवन्तीत्यावर्त्तान् दृष्टान्तान् कषायांश्च तद्दान्तिकानभिधित्सुः । सूत्रद्वयमाह-सुगमं चैतत् । मू. (४१९) चत्तारि आवत्ता पं० तं० खरावत्ते उन्नतावत्ते गूढावते आमिसावत्ते, एवामेव चत्तारि कसाया पं० तं०-खरावत्तसमाणे कोहे उन्नत्तावत्तसमाणे माणे गूढावत्तसमाणा माया आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोहं अनुपविट्टे जीवे कालं करेति नेरइएसु उववज्रति, उन्नत्तावत्तसमाणं माणं एवं चैव गूढावत्तसमाणं मायमेवं चेव आभिसावत्तसमाणं लोभमनुपविट्टे जीवे कालं करेति नेरइएसु उववज्जेति वृ. नवरं खरो - निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्त्तनमावर्त्तः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्त्तः, उन्नतः उच्छ्रितः स चासावावर्त्तश्चेति उन्नातावर्त्तः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकायावा, गूढश्चासावावर्त्तश्चेति गूढावर्त्तः स च गेन्दुकदवरकस्य दारुग्रन्थ्यादेर्वा आमिषं-मांसादि तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एततसमानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवतांकोपादीनामिति तत्फलमाह 'खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनमित्ततया दुर्गतिनिमित्तत्वादुच्यते 'नेरइएसु उववज्जइ'त्ति ।। मू. (४२०) अनुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चेव उत्तरासाढे एवं चेव वृ. नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः अनुराहेत्यादि सूत्रत्रयमाह- कण्ठ्यञ्चैतदिति । देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह मू. (४२१) जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संतिवा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचियं बंध उदीर वेत तह निज्जरेचेव । वृ. 'जीवाण' मित्यादि सूत्रषट्कं व्याख्यातं प्राक् तथापि किञ्चिल्लिख्यते, 'जीवाणं' ति शब्दो वाक्यालङ्कारार्थः, चतुर्भिः स्थानकैः - नारकत्वादिभिः पर्यायेनिर्विर्त्तिताः- कर्म्मपरिणाम नीतास्तथाविधाशुभपरिणामवशाद्बद्धास्ते चतुःस्थाननिर्वर्त्तितास्तान् पुद्गलान्, कथं निर्वर्त्तितानित्याह-पापकर्म्मतया - अशुभस्वरूपज्ञानवरणादिरूपत्वेन, 'चिणिसु' त्ति तथाविधापरकर्म्मपुद्गलैश्चितवन्तः- पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः 'नेरइय- निव्वत्तिए 'त्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रहः, एवं सर्वत्र, तथा - 'एवं उवचिणिसु'त्ति चयसूत्राभिलापेनोपचयसूत्रं वाच्यं उवचिणिसुत्ति- उपचितवन्तः पौनःपुन्येन 'एव'मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च एवं बन्धउदीरे' त्यादिवक्तव्ये यच्चयोपचयहग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र 'बंध’त्ति बंधिसुं ३ श्लथबन्धनबद्धान् गाढबन्धनबद्धान् कृतवन्तः ३, 'उदीर' त्ति उदीरिसुं ३ उदयप्राप्ते दलिके अनुदि- तांस्तान् आकृष्य करणेन वेदितवन्तः ३, 'वेय'त्ति वेदिंसु ३ प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः ३ 'तह निज्जरा चेव' त्ति निज्जरिंसु ३ कार्त्स्न्येनानुसमय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy