________________
३०६
स्थानाङ्ग सूत्रम् ४/४/३९५
नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म्म साचार्यकं शिल्पं कादाचित्कं वा कर्म्म नित्यव्यापारस्तु शिल्पमिति, कर्म्मणो जाता कर्म्मजा, अपिच - कर्माभिनिवेशोपलब्धकर्म्मपरमार्था कम्र्म्माभ्यसविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह - “उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला ।
11911
साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी ।" इति,
॥१॥
हैरण्यककर्षकादीनामिवेति, परिणामः सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्म्मः सप्रयोजनमस्यास्तठप्रधाना वेति पारिणामिकी, अपिच - अनुमानकारणमात्र ध्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह"अनुमानहेउदितसाहिया वयविवागपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥” इति अभयकुमारादीनामिवेति । तथ मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्द्देश्यस्य रूपादेः अव इति प्रथमतो ग्रहणं परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रकान्तार्थविशेषनिश्चयोऽवायः अवगतार्थविशेषधरणं धारणेति, उक्तञ्च –
11911
—
“सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेहा । तस्सावगमोऽवाओ अविच्छुई धारणा तस्स ॥” इति,
तथा अरञ्जरम् उदकुम्भो अलञ्जरमिति यत्प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोठप्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्टितं चेति, विदरोनदीपुलिनादौ जलार्थो गर्त्तः तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमतारसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमल्मल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति ।
मू. (३९६) चउव्विहा संसारसमावन्नगा जीवा पं० तं० - नेरइता तिरिक्खजोणीया मणुस्सा देवा, चउव्विहा सव्वजीवा पं० तं० - मणजोगी वइजोगी कायजोगी अजोगी अहवा चउव्विहा सव्वजीवा पं० तं० - इत्थिवेयगा पुरिसवेदा नपुंसकवेदगा अवेदगा अथवा चउव्विहा सव्वजीवा पं० तं० - चक्खुदंसणी अचक्रवु वंसणी ओहिदंसणी केवलदंसणी अहवा चउव्विहा सव्वजीवा प० तं० संजया असंजया संजयासंजया नोसंजयाणोअसंजया ।
वृ. यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधानान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो - निरुद्धयोगाः सिद्धाश्चेति । अवेदकाः सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्द्दर्शनं तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः- स्पर्शनादि तद्दर्शनवन्त एकेन्द्रियादय इति । संयताः सर्वविरताः असंयता-अविरताः संयतासंयता- देशविरताः त्रयप्रतिषेधवन्तः सिद्धा इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org