________________
३००
स्थानाङ्ग सूत्रम् ४/४/३८३ भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपररिमाणो मैथुनसंज्ञावेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतयामत्याआहारकथाश्रवणादिजनितया तदर्थोपयोगेन-सततमाहारचिन्तयेति।
हीनसत्त्वतया-सत्त्वाभावेन मतिः-भयवाश्रिवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन-इहलोकादिभयलक्षणा-र्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुध्ध्या तदर्थोपयोगेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया मत्यासचेतनादिपरिग्रहदर्शनादिजनितबुद्धा तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति।
मू. (३८४) चउव्विहा कामा पं० तं०-सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोद्दा कामा नेरइयाणं।
वृ.संज्ञा हि कामगोचराभवन्तीति कामनिरूपणसूत्रं व्यक्तञ्चं, किन्तुकामाः-शब्दादयः, श्रङ्गारा देवानां एकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हिश्रृङ्गारो, यदाह-“व्यवहारः पुनार्योरन्योऽन्यरक्तयोरतिप्रकृतिः श्रृङ्गारः" इति, मनुष्याणांकरुणामनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेनचशोचनात्मकत्वात्, करुणो हिरसःशोकस्वभावः “करुणःशोकप्रकृति"रितिवचनादिति, तिरश्चांबीभत्साजुगुप्सास्पदत्वात्, बीभत्सरसो हि जुगुप्सात्मको, यदाह-"भवतिजुगुप्साप्रकृतिबीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वात, रौद्ररसो हि क्रोधरूपो, यत आह- 'रौद्रः क्रोधप्रकृति" रिति।
एतेच कामाः तुच्छगम्भीरयोधिकेतरा इति तावभिधित्सुः सदष्टान्तान्यष्टौ सूत्राण्याह
मू. (३८५) चत्तारि उदगा पं० २०-उत्ताणे नाममेगेउत्ताणोदए उत्ताणे नाममेगेगंभीरोदए गंभीरे नाममेगे उत्ताणोदए गंभीरे नाममेगे गंभीरोदए १, एवामेव चत्तारि पुरिसजाया पं० तं०उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे नाममेगे गंभीरहिदए ४, २, चत्तारि उदगापं० २०-उत्ताणे नाममेगे उत्ताणे नाममेगे उत्ताणोभासौ उत्ताणे नाममेगे गंमीरोभासी ४, ३, एवामेव चत्तारि पुरिसजाया पं० २०-उत्ताणे नाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोभासी ४,४,।
चत्तारि उदही पं० २०-उत्ताणे नाममेगे उत्ताणोदही उत्ताणे नाममेगे गंभीरोदही ४, ५, एवामेव चत्तारि पुरिसजाता पं० तं०-उत्ताणे नाममेगे उत्ताणहियए ४, ६, चत्तारि उदही पं० तं०-उत्ताणे नाममेगेउत्ताणोभासी उत्ताणे नाममेगेगंभीरोभासी४,७, एवामेव चत्तारिपुरिसजाया पं० २०-उत्ताणे नाममेगे उत्ताणोभासी ४,८।।
वृ. 'चत्तारी'त्यादीनि व्यक्तानि च, किन्तु उदकानि-जलानि प्रज्ञप्तानि तत्रोत्तानं नामैकं तुच्छत्वात्प्रतलमित्यर्थः पुनरुत्तानंस्वच्छतयोपलमभ्यमध्यस्वरूपत्वादुदकं-जलम्, उत्ताणोदयेत्ति व्यस्तोऽयंनिर्देशः प्राकृतशैलीवशात्समस्तइवावभासते, नचमूलोपात्तेनोदकशब्देनायांगतार्थो भविष्यतीति वाच्यम्,तस्य बहुवचनान्तत्वेनेहासम्बद्धमानत्वात्, साक्षादुदकशब्दे च सति किं तस्यवचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपिभावनीयमिति।तथोत्तानंतथैव गम्भीरमुदकंगडुलत्वादनुपलभ्यमानस्वरूपंतथा गम्भीरम्-अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org