SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ स्थानं-४,- उद्देशकः -४ २९९ सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्त'त्ति क्वचित्पाठस्तत्र ओजो-बलं शारीरं विद्यादिसत्कं वातत्कृत्वा-प्रदर्श्य यादीयतेसाओजयित्वेत्यभिधीयते, 'पुयावइत्त'त्ति प्लुङ्गता वितिवचनात् प्लावयित्वा-अन्यत्र नीत्वाऽऽर्यराक्षितवत्पू, तं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'वुयावइत्त'त्तिसम्भाष्यगौतमेनकर्षकवत्, वचनं वापूर्वपक्षरूपंकारयित्वा निगृह्यचप्रतिज्ञावचनं वाकारयित्वा यासातथोक्ता, क्वचित् 'भोयावइत्त'त्तिपाठस्तवमोचयित्वासाधुनातैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्त'त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रकवत् या सा तथोच्यत इति । नटस्येवसंवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय'त्तिखादितंभक्षणंयस्यां सा नटखादिता, नटस्येव वा खइव'त्तिसंवेगशून्यधर्मकथनलक्षणो हेवाकः-स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरंभट"तथाविधबलोपदर्शनलब्धभोजनादेः खादिताआरभटवृत्तिलक्षणहेवाकोवा सिंहःपुनःशौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वाखादितातथाविधप्रकृतिर्वा श्रृगालस्तुन्यग्वृत्तोयपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः-धान्यार्थं क्षेत्रकर्षणम्, 'वाविय'त्ति सकृद्धान्यवपनवती ‘परिवाविय'त्ति द्विस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत्, 'निंदिय'त्ति एकदाविजातीयतृणाद्यपनयनेन शोधिता निदाता, परिनिंदिय'त्ति द्विस्त्रिर्वा तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वामूलप्रायश्चित्तदानतः, निन्दियासकृततिचाकालोचनेन परिनिंदियापुनः पुनरिति 'धन्नपुंजियसमाण'त्ति खले लूनपूनविशुद्धपुलीकृतधान्यसमाना सकलातिचारकचवरविहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समानाया हि लघुनापियत्नेन स्वस्वभावंलस्यतइति, अन्यातुयद्विकीर्ण-गोखुरक्षुन्नतया विक्षिप्तं धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामग्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षितं-क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति॥ इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्मवतीति संज्ञानिरूपणाय सूत्रपञ्चकं मू. (३८३) चत्तारि सन्नाओ पं० तं०-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउहि ठाणेहिं आहारसन्ना समुप्पजति, तं०-ओमकोट्टताते १ छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदट्ठोवओगेणं ४, २, चउहि ठाणेहिं भयसन्ना समुप्पजति, तं०-हीनसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणंमतीते तट्ठोवओगेणं ३, चउहि ठाणेहि मेहुणसन्ना समुप्पजति, तं०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणंमतीते तदट्ठोवओगेणं४, चउहि ठाणेहिं परिग्गहसन्ना समुप्पजइ, तं०-अविमुत्तयाए लोभवेयणिजस्स कम्मस्सउदएणंमतीते तदट्ठोवओगेणं वृ. 'चत्तारी' त्यादि व्यक्तं, केवलं संज्ञानं संज्ञा-चैतन्यं, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy