________________
स्थानं - ४, - उद्देशकः -४
२८९
पापीयानित्येवंबुद्धिजनकत्वेन सध्शकः - अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः २, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सध्शकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः ।
श्रेयानेकः सद्वृत्तत्वात् श्रेयानित्येवमात्मनां मन्यते यथावद्बोधात् लोकेन वा मन्यते विशदसदनुष्ठानाद, इह च मन्निज्जइत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम्, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतद्दोषेण जनेन मन्यते ध्ढप्रहारिवत् १ पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्मक्तेन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात्, असंयतो वा मन्यते, संयतलोकेनेति ३, श्रेयानेको भावतो द्रव्यतस्तु किञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सशकोऽन्येन श्रेयसा मन्यते - ज्ञायते जनेनेति विभक्तिपरिमणामाद्वा सध्शकमात्मानं मन्यत इति एवं शेषाः ४, ' आघवइत्ते 'ति आख्यायकः- प्रज्ञापकः प्रवचनस्य एकः कश्चिन्न च प्रविभावयिताप्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वाप्रवचनार्थस्य नयोत्सर्गादिभिर्व्विवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चोञ्छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्वतः संविग्नः संविग्नपाक्षिको वा, यदाह
11911 "होज्जहु वसणं पत्तो सरीरदुब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेज्जा"
॥२॥ तथा - “ओसन्नोऽवि विहारे कम्मं सिढिलेइ सुलहबोही य । चरणकरणं विसुद्धं उवहंतो परूवेंतो
इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षणपुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्याद्वृ - क्षविभूषामहा-‘चउव्विहे’ त्यादि, अथवा पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रिय - लब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया स्यात्तमाह- 'चउव्विहे' त्यादि पातनयैवोक्तार्थं, नवरं 'प्रवालतये 'ति नवाङ्कुरतयेत्यर्थः
एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह
मू. (३६७) चत्तारि वातिसमोसरणा पं० तं०-किरियावादी अकिरियावादी अन्नणितावादी वेणतियावादी । नेरइयाणं चत्तारि वादिसमोसरणा पं० तं०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव धणियकुमाराणां एवं विगलिंदियवज्जं जाव वेमाणियाणं ।
बृ. वादिनः- तीर्थिकाः समवसरन्ति - अवतरन्त्येष्विति समवसरणानि - विविधमतमीलकास्तेषां समवसरणानि वादिसमवसरणानि, क्रियां- जीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तन्निषेधादक्रियावादिनो-नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं
3 19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org