SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ ॥२॥ ॥३॥ 119 11 स्थानाङ्ग सूत्रम् ४/४/३६६ दक्षो १ विज्ञातशास्त्रार्थो २, दृष्टकर्म्मा ३ शुचि ४ भिषक् । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ अनुरक्तः १ शुचि २ र्दक्षो ३, बुद्धिमान् ४ परिचारकः । आढ्यो १ रोगी भिषग्वश्यो २, ज्ञापकः ३ सत्त्ववानपि ४" - इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं, - 'निव्विगइ निब्बलोमे तउद्धवाणमेव उब्भामे । वेयावचाहिंडण मंडलिकप्पट्ठियाहरणं " इति चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वाचिकित्सकः-प्रतिकर्त्तेत्यात्मचिकित्सक इति । अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह 'चत्तारि' त्यादि कण्ठ्यं, नवरं व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमर्शीत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति न च तत् करोतीति, एवं भावव्रणं-अतिचारलक्षणं करोति कायेन न च तदेव परिमृशति-डसपुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृश्यत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतोरक्षत्येकोऽन्यस्तु पूर्वकृतातिचारंनिदानपरिहारतो रक्षति नवं च न करोति, 'नो' नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणसंरोही, भावव्रणापेक्षया तु नो व्रणसंरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणसंरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्ता आत्मचिकित्सकाः, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह 'चत्तारी' त्यादि चतुःसूत्री, सुगमा, नवरं, अन्तः मध्ये शल्यं यस्य अदृश्य मानमित्यर्थः तत्तथा, 'बाहिं सल्ले' त्ति यच्छत्यं व्रणस्यान्तरल्पं बहिस्तु बहु तद्बहिरिव बहिरित्युच्यते, अन्तो बहिः शल्यं यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैव न स्याद्, उध्धृ तत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं ३ चतुर्थः शून्य इति ४, गुरुसमक्षमनालोचितत्वेनान्तः शल्यम्-अतिचाररूपं यस्य स तथा, बहिः शल्यं आलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः । अन्तर्दुष्टं व्रणं लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वाद्बहिरिवेति । पुरुषाधिकारात् तद्मेतप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १ अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान्, सचाविरतत्वेन दुरनुष्ठायित्वादिति २ अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च श्रेयान् उदायिनृपमारकवत् ३ चतुर्थः स एव कृतपाप इति ४, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सध्शकः - अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy