SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० स्थानान सूत्रम् ४/४/३६७ ॥१॥ “असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्वेणइयामंच बत्तीसा " इति, तत्राशीत्याधिकं शतं क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम्-जीवाजीवश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान्नवपदार्थान् विरचय्य परिपाट्याजीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदी तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्याः-अस्तिजीवःस्वतो नित्यःकालतइत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया हूस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेनद्वितीयो विकल्प ईश्वरकारणिनः, तृतीयोविकल्पआत्मवादिनः 'पुरुष एवेदं ग्नि' मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानमवश्यन्तया यद्यथाभवनेप्रयोजककत्रीति पञ्चमः स्वभाववादिनः, एवं स्वतइत्यजहता लब्धाः पञ्चविकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदोयथाहूस्वत्वाद्यपेक्षोदीर्घत्वादिपरिच्छेदः, एवमेवचात्मनः स्तम्भकुम्भादीन्समीक्ष्य तद्वयतिरिक्ते हि वस्तुन्यात्मबुद्धिःप्रवर्तत इत्यतो यदात्मनः स्वरूपंतत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैतेदश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदंविंशतिर्विकल्पानामतोविंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति। ___ तथाअक्रियावादिनांतुचतुरशीतिर्द्रष्टव्या, एवञ्चेयंपुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौ न स्तः, कालादीनांतुपञ्चानांषष्ठी यच्छान्यस्तयते, इयंचानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पञ्चाद्विकल्पाभिलापः-नास्तिजीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यच्छावसानैः सर्वे षड्विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रत्येकं द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति। अज्ञानिकानांतुसप्तषष्टिर्भवति,इयंचामुनोपायेनद्रष्टव्या-तत्रजीवाजीवादीन्नवपदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व १ मसत्त्वं २ सद्सत्त्वं ३ अवाच्यत्वं४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व७मिति, तत एतेनव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तुचत्वारएवाद्या विकल्पाः, तद्यथा-सत्त्व१मसत्त्वंसदसत्त्वं३मवाच्यत्वं ४ चेति, विषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्वैवं-को जानाति जीवः सन्निति किंवातेन ज्ञातेनेत्येको विकल्पः,वमसदादयोऽपिवाच्याः, तथा सती भावोत्पत्तिरिति कोजानाति किंवाऽनया ज्ञातया? एवमसती सदसती अवक्तव्याचेति, सत्वादिसप्तभङ्गश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं पररूपमात्रापेक्षया त्वसत्त्वं २ तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुध्नादेरसद्भावपर्यायेण वृत्तत्वादिनापरगतपर्यायेणैवादिष्टस्यासत्त्वाद्वस्तुनःसदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy