SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २८६ स्थानाङ्ग सूत्रम् ४/४/३६३ क्रमेण चैते शुभसमाशुभशुभतरा वेदितव्याः, वर्णवानित्यादी प्रशंसायामतिशायने वामतुबिति। आहारो हि भक्षणीय इति भक्षणाधिकारादाशीविषसूत्रं, सुगमञ्चेदं, नवरं मू. (३६४) चत्तारि जातिआसीविसा पं० तं० - विच्छुतजातीयासीविसं मंडुक्कजातीयासीविसे उरगजातीयासीविसे मनुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते ! केवइए विसए पन्नत्ते?, पभू णं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोदि विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसठ्ठताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुक्कजातिआसीविसस्स पुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणेमेत्तं बोदि विसेणंविसट्टमाणिं, सेसंतंचेव जावकरेस्संतिवा, उरगजाति पुच्छा, पभूणंउरगजातिआसीविसे जंबूद्दीवपमाणमेत्तं बोदिं विसेण सेसं तं चेव जाव करेस्संति वा, मनुस्सजातिपुच्छा, पभूणं मनुस्सजातिआसीविसेसमतखेत्तपमाणमेत्तंबोदिविसेणं विसपरिणतंविसट्टमाणिकरेत्तए, विसते से विसठ्ठताते नो चेवणंजाव करिस्संति वा। वृ. 'आसीविस'त्तिआश्यो-दंष्ट्रास्तासु विषं येषां तेआशीविषाः, तेच कर्मतोजातितश्च, तत्र कर्मतस्तिर्यङ्गनुष्याः कुतोऽपि गुणादाशीविषाः स्युः देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च॥१॥ “आसी दाढा तग्गमहाविसाऽऽसीविसा दुविह भेया। ते कम्मजाइभेएण नेगहा चउव्विहविग्गप्पा॥" इति, जातित आशीविषा जात्याशीविषाः-वृश्चिकादयः, 'केवइय'त्ति कियान् विषयोगोचरो विषस्येति गम्यते, प्रभुः-समर्थः, अर्द्धभरतस्य यत्प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीर विषेणस्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः, "विसट्ठमाणिं' विकसन्तीं विदलन्ती 'कर्तुं विधातुं विषः सः-गोचरोऽसौ अथवा 'से' तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थतायाः-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः “सम्पत्त्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करिसुत्ति अकार्युर्वृश्चिका इति गम्यते,इहचैकवचनप्रकमेऽपिबहुवचननिर्देशोवृश्चिकाशीविषाणां बहुत्वज्ञापनार्थं, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषांकालिकत्वज्ञापनार्थः, समयक्षेत्रं-मनुष्यक्षेत्रं विषपरिमाणो हि व्याधिरिति तदधिकारा व्याधिभेदानाह - मू. (३६५) चउबिहे वाही पं० तं० - वातिते पित्तिते सिंभिते सत्रिवातिते, चउविहा तिगिच्छा पं० तं० - विजो ओसधाई आउरे परिचारते । वृ. 'चउब्विहे'इत्यादि कण्ठ्यं, केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सनिपातः-संयोस्त्रगो द्वयोयाणां वेति, वातादिस्वरूपं चैतत्॥१॥ “तत्र रूक्षो १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ श्चलो ६ऽनिलः। पित्तं सस्नेह १ तीक्ष्णो १ष्णं ३ लधु ४ विश्रं ५ सरं ६ द्रवम्७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy