________________
२८५
-
॥१॥
स्थानं-४, - उद्देशकः -४
स्थानं-४-उद्देशकः-४ वृ.व्याख्यातस्तृतीयोद्देशकः, तदनन्तरंचतुर्थआरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं
मू. (३६२) चत्तारि पसप्पगा पं० तं० - अनुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अनुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नानं सोक्खाणं अविप्पओगेणं एगे पसप्पए।
वृ. 'चत्तारिपसप्पगे'त्यादि, अस्यचानन्तरसूत्रेण सहायंसम्बन्धः-अनन्तरसूत्रेदेवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या-प्रकर्षेण सर्पन्ति-गच्छन्तिभोगाद्यर्थं देशानुदेशसञ्चरन्ति आरम्भपरिग्रहतोवा विस्तारं यान्तीतिप्रसर्पकाः, 'अनुप्पन्नाणं'तिद्वितीयार्थेषष्ठीतिअनुत्पन्नान्असम्पन्नान भोगान-शब्दादीन तत्कारणद्रविणाङ्गनादीनवा 'उप्पाइत्त'त्तिउत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानांभोगानामुत्पादयिता-उत्पादकःसन् एकः कोऽपिप्रसर्पति-प्रगच्छति, प्रसर्पको, वा प्रगन्ता भवतीति गम्यते, प्रसर्पयन्ति च भोगाद्यर्थिनो देहिनः, उक्तञ्च
"धावेइ रोहणं तरइ सागरंभमइ गिरिनिगुंजेसु ।
मारेइ बंधवंपिहु पुरिसो जो होज्ज धणलुद्धो॥ ॥२॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो।
कुलसीलजातिपच्चयट्टिइंच लोभद्दुओ चयइ ।।'' इति, तथापूर्वोत्पन्नानांपाठान्तरेणप्रत्युत्पन्नानांवा 'अविप्पओगेणं तिअविप्रयोगायरक्षणार्थमिति 'सौख्याना मिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगम।भोगसौख्यार्थञ्च प्रसर्पन्तः कर्मबद्धवा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह -
मू. (३६३) नेरतिताणंचउव्विहे आहारे पं० तं०-इंगालोवमे मुम्भरोमेसीतले हिमसीतले, तिरिक्खजोणियाणं चउबिहे आहारे पं० २० - कंकोवमे बिलोवभे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउब्विहे आहारे पं० तं० - असणे जाव सातिमे, देवाणं चउविहे आहारे पं० तं० - वनमंते गंधमंते रसमंते फासमंते।।
वृ. 'नेरइयाण'मित्यादि व्यक्तं, केवलं अङ्गारोपमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिइरतरदाहत्वात् शीतलःशीतवेदनोत्पादकत्वात् हिमशीतलोऽत्यन्तशीलतवेदनाजनकत्वात् अधोऽधइतिक्रमइति।आहाराधिकारातिर्यग्मनुष्यदेवानामाहारनिरूपणायसूत्रत्रयं-'तिरिक्खजोणियाण'मित्यादि व्यक्तं, नवरं कङ्कः-पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमर्थो-यथा हि कङ्कस्य दुर्जरोऽपिस्वरूपेणाहारःसुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपमइति, तथा बिले प्रविशद्रव्यं बिलमेवतेनोपमा यत्रस तथा, बिले हिअलब्धरसास्वादंझगिति यथा किल किञ्चित्प्रविशति एवं यस्तेषां गलबिले प्रविशतिसतथोच्यते, पाणो-मातङ्गस्तन्मांसमस्पृश्यत्वेनजुगुप्सया दुःस्वाद्यस्यादेवंयस्तेषांदुःखाद्यः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः सपुत्रमांसोपमः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org