________________
२८४
स्थानाङ्ग सूत्रम् ४/३/३६०
इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः-अग्न्यादिकःसाध्योऽर्थ इत्येव हेतुरितिअनुमानं, तथाअस्ति तदग्न्यादिकंवस्त्वतोनास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्तितदग्न्यादिकमतःशीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तवृक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थइत्यपिहेतुरनुमानमिति, इहचशब्देकृतकत्वस्यास्तित्वादस्त्यनित्यत्वंघटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानसइवेत्यादिकंस्वभावानुमानंकार्यानुमानञ्चप्रथमभङ्गकेन सूचितम् १, तथा अग्नेरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानञ्च, तथाऽग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारोमहानसवदित्यादिकारणविरुद्धोपलम्भानुमानम्कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितं २,
तथा छत्रादेरग्नेर्वा नास्तित्वादस्तिक्वचित्कालदिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्मानुमानश्च तृतीयभङ्गकेनोपात्तं३ तथा दर्शनसामग्यां सत्यांघटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानंतथाधूमस्य नास्तित्वान्नास्त्यविकलोधूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात्, शिंशषानास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्रेनास्तित्वाद्भूमो नास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रकियेयं, सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति।
अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह -
मू. (३६१) चउबिहे संखाणे पं०२०-पडिकम्मं १ ववहारे २ रज्जू ३ रासी ४अहोलेगे णंचत्तारि अंधगारं करेंति, तं० - नरगानेरइया पावाईकम्माइंअसुभा पोग्गला १, तिरियलोगेणं चतारि उज्जोतं करेंति, तं० - चंदा सूरा मणि जोसी २, उड्डलोगे णं चतारि उज्जोतं करेंति, तं० - देवा १ देवीओ २ विमाणा ३ आभरणा ४,३॥
वृ. 'चउबिहे' इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्रपरिकर्म सङ्कलनादिकं पाटीप्रसिद्धं, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिकपञ्चराशिकादीति । रजुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह
___'अहे' इत्यादि सुगमं, किन्तु अधोलेके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरकानरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानालक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपेअधोलेकेप्राणिनामुत्पादकत्वेनपापानांकर्मणामन्धकारकर्तृत्वमिति, तथाअशुभाः पुद्गलाः-तमिश्रभावेन परिणताइति । 'मणि'त्तिमणयः-चन्द्रकान्तायाः, 'जोइ'त्तिज्योतिरग्निरिति
स्थानं-४ - उद्देशकः-३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org