________________
स्थानं-४, - उद्देशकः -३
_
२८३ तित्तिरीशकटतित्तिरीतिगृहीतत्वादिति, ततोविषन्नःशाकटिक इति, अत्रोक्तम्- “सासगडतित्तिरी वंसगंमि हेउंमि होइ नायव्वा ॥" इति,
सचैवं-अस्तिजीवोऽस्तिघट इत्युभ्युपगमे जीवघटयोरस्तित्वमविशेषेणवर्तते ततस्तयोरेकत्वंप्राप्तमभिन्नशब्दविषयत्वादिति व्यसको हेतुःघटशब्दविषयघटस्वरूपवत्, अथास्तित्वं जीवादौनवर्ततेततोजीवाद्यभावः स्यादस्तित्वाभावादितिव्यंसकःप्रतिवादिनोव्यामोहकत्वादिति, तथा 'लूसए'त्ति लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्तान्तरशिक्षितेन हिशाकटिकेनतेन याचितोऽसौ धूर्ततर्हि देहिमेतर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्कूनालोड्येति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीयेयं तर्पणमिति सत्तूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, सचायं यदि जीवघटयोरस्तित्ववृत्त्या एकत्वंसम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति,
इहास्तित्ववृत्तेरविशेषादित्ययंलूषकोजीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेतिहेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति-गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः-प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र ‘पञ्चक्खे'त्ति अश्नाति अश्नुते-व्याप्नोत्य
नित्यक्षः-आत्मा तंप्रतियद्वर्त्तते ज्ञानंतत्प्रत्यक्षं निश्चयतोऽवधिमनः पर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्त प्रत्यक्ष व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य॥१॥ "अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीशम्।
प्रत्यक्षमितरत् ज्ञेयं, परोक्षं ग्रहणेक्षया ।" ग्रहणापेक्षयेति भावः,अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पञ्चान्मानं-ज्ञानमनुमानम्, एतल्लक्षणमिदम्॥१॥ “साध्याविनाभुवो लिङ्गात्, साध्यनिश्याकं स्मृतम् ।
अनुमानं तदभ्रान्तं, प्रभाणत्वात् समक्षवद् ॥” इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमासैवोपम्यंअनेन गवयेन सशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च - ॥१॥ "गां दृष्टवाऽयमरण्येऽन्यं, गवयं वीक्षते यदा।
भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥ ॥२॥
तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्तते।
पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा।" इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भनेसंज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च॥१॥ "दृष्टेष्टाव्याहता वाक्यात्परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् ।। ___ आप्तोपज्ञमनुल्लङ्यमध्ष्टेष्टविरोधकम्। तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् ।।" इति,
॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org