SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२ स्थानाङ्ग सूत्रम् ४/३/३६० चतं वयं सम्यग् जानीम इति। ___ अथज्ञातानंतरंज्ञातवद्धेतोः साध्यसिद्धयङ्गत्वात्तभेदान्हेऊ इत्यादिना सूत्रत्रयेणाहव्यक्तं चैतत्, नवरं हिनोति-गमयत्ति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च॥१॥ “अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासरतदाभता ।।" इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाचतुर्द्धा, तत्र 'जावए'त्ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्यपत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायांकालयापनांकृतवतीति यापकः, उक्तञ्च-“उमामियायमहिला जावगहेउम्मिउट्टलिंडाई॥"इति, इह वृद्धव्यालयातम्प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति, ततोऽसौ नावगच्छतिप्रकृतमिति, सचेशः सम्भाव्यते-सचेतना वायवःअपरप्रेरणेसतितिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यानवबुध्ध्यामानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणाद्भावनाय प्रवर्तितुंशक्नोति,अतो भवत्यस्माद्, वादिनः कालयापनेति, अथवायोऽप्रतीतव्याप्तिकतयाव्याप्तिसाधकप्रमाणन्तरसव्यपेक्षत्वान्न झगित्येवसाध्यप्रतीतिंकरोति अपितुकालक्षेपेणेत्यसौ साध्यप्रतीतिप्रति कालयापनाकारित्वाद्यापकः, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुः, नहि सत्त्वक्षवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि-सत्त्वं नामार्थक्रियकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रियातुनित्यस्यैकरूपत्वान्न क्रमेण नापि यौगपद्येन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्योऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्त्तमानं क्षणिक एवावतिष्ठत इत्येवंक्षेपेण साध्यसाधनेकालयापनाकारित्वाद्यापकः सत्त्वलक्षणो हेतुरिति तथास्थापयतिपक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात्समर्थयति, यथापरिव्राजकधूर्तेलोकमध्यभागे दत्तं बहुफलं भवति तचाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तन्निग्रहायकश्चित्श्रावको लोकमध्यस्यैकत्वात्कथं बहुषुग्रामादिषुतत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितोमोलोकमध्यभागोनभवतीतिपक्षस्थापितवानितिस्थापकोहेतुः, उक्तञ्च-“लोगस्स मज्झजाणण थावगहेऊ उदाहरणं" इति, स चायं-अग्निरत्र धूमात् तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैवप्रतीयमानत्वादिति, अनयोश्चप्रतीतव्याप्तिकतयाअकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति। तथा व्यंसयति-परंव्यामोहयतिशकटतित्तिरीग्राहकधूर्त्तवद्यः सव्यंसक इति, तथाहिकश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?, सच कि लायंशकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत्-तर्पणालोडिकयेति, सक्त्वालोडनेनजलाद्यालोडितसक्तुभिरित्यर्थः, ततोधूतः साक्षिण आहृत्य सतित्तिरीकं शकट जग्राह, उक्तवांश्च मदीयमेतद्, अनेवैवशकटतित्तिरीति दतत्वात्, मया तु शकटसहिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy