________________
स्थानं-४, - उद्देशकः-३
२८१ जलेनिपतन्तितानिजलचराजीवाभवन्तियानिचस्थले निपतन्तितानिस्थलचराइति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तुगृहीत्वा तदुकं विघटयति, तदुत-यानिपुनर्मध्येतेषां का वार्तेत्येतदुपपत्तिमात्रमुत्तरभूतंतद्वस्तुक उपन्यासोपनयो, ज्ञातत्वंचास्यज्ञातनिमित्तत्वात्, अथवा यथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य-जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, नचोभयरूपाः सत्त्वाअभ्युपगताइति, अथवा नित्योजीवः अमूर्त्तत्वादाकाशवदित्युक्ते आह-अनित्य एवास्तु अमूर्त्तत्वात् कर्मवदिति।
तथा 'तयन्नवत्थुए'त्ति तस्मात्-परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्-विघटनाय पतनादन्यदुत्तरमाह-यानिपुनः पातयित्वाखादति नयतिवा तानि किंभवन्ति?, नकिञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा-जलाद्याश्रितत्वात् जलचरादितयातानिसम्पद्यन्तेतथामनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात्, नचतानि तथाऽभ्युपगम्यन्त इतिजलादिगतानामपिजलचरत्वाद्यसम्भव इति, तथा 'पडिनिभेत्तियत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम् – ॥१॥ “तुज्झ पिया मज्झ पिउणो, धारेइ अनूनयं सयसहस्सं ।
जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देहि ॥” इति, प्रतिनिभताचास्य सर्वस्मिन्नप्युक्तेश्रुतपूर्वमेवेदंममेत्येवमसत्यंवचोब्रुवाणस्य परस्यनिग्रहाय तव पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अत्रायं प्रयोगः-नास्त्यश्रुतपूर्वं किञ्चित् श्लोकादि ममेत्येवमभिमानधनं ब्रूमो वयम्-अस्ति तवाश्रुतपूर्वं वचनं तव पिता मम पितुर्धारयत्यनूनं शतसहनमिति यथेति । तथा 'हेउ'त्तियत्रोपन्यासोपनयेपर्यनुयोगस्यहेतुरुत्तरतयाऽभिधीयतेसहेतुरिति, यथा केनापिकश्चित् पर्यनुयुक्तः-अहो किं यवाः क्रीयन्ते त्वया?
सत्वाह-येन मुधैवन लभ्यन्तेइति, तथाकस्मात्ब्रह्मचर्यादिकष्टमनुष्ठीयते?, यस्मादकृततपसांनरकादौ गुरुतरावेदना भवतीति, इदमपिउपपत्तिमात्रमेवज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः-कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विनामोक्षो न भवति, एतत्समर्थनायैव साधुस्तामाह-भो यवग्राहिन् किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधोश्चायमभिप्रायो यथामुधालाभाभावात्तान्क्रीणासि त्वमेवमहंतांविना तदभावात्तांकरोमीति, इहचमुधायवालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्वेतूपन्यासोपनयज्ञाततेति, इहचकिश्चिद्विशेषेणैवंविधा ज्ञातबेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org