________________
स्थानाङ्ग सूत्रम् ४/३/३६० कश्चिदाह-तृतीयोऽप्यस्ति नोजीवाख्ये गृहकोलिकादिच्छन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अत्तोवणीए त्ति आत्मैवोपनीतः तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतं, तथाहि-कथमिदं तडागमभेदं भविष्यतीति राज्ञा पृष्टः पिङ्गलाभिधानः स्थपतिरवोचत् - भेदस्थाने कपिलादिगुणे पुरुषो निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेनात्मैव नियुक्तः, स्ववचनदोषात्, तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सवर्वे सत्त्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह- अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्म्मान्तरस्थिरपुरुषाणामिति, तद्दोषता तु प्रतीतैवास्येति,
'दुरुवणीए 'त्ति दुष्टमुपनीतं निगमितं योजितमस्मिन्निति दुरूपनीतं परिव्राजकवाक्यवद्, यथा हि किल कश्चित् परिव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्तेन किञ्चिदुक्तस्तेन च तस्योत्तरमसङ्गतं दत्तम्, अत्र च वृत्तं - "कन्याऽऽचार्याऽधना ते ननु शफरवधे जालमश्नासि मत्स्यास्तेमे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? । दत्त्वाऽरीणां गलेऽहि क्व नु तव रिपवो ? येषु सन्धि छिनद्मि, चौरस्त्वं ? द्यूतहेतोः कितवइति कथं ? येन दासीसुत्तोऽस्मि ”
इत्येवं प्रकृतसाध्यानुपयोगि स्वमतदूषणावहं वा यत्तद्दान्तिकेन सह साधर्म्याभावाद् दुरूपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधर्म्याचछब्दस्य नित्यत्वमस्तु ?, अपि त्वनित्यत्वात् घटस्य तत्साधर्म्याच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणू, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीप दृष्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि - दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञान- जननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्,
२८०
एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथाः
11911
“पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासो । दुरुवणियं च चउत्थं अहम्मजुतंमि नलदामो ॥ पडिलोमे अह अभओ पज्जोयं हरइ अवहिओ संतो” इति, “अत्तउवन्नासंमि य तलायभेयंमि पिंगलो थवई । अनिमिसगेण्हणमिच्छुग दुरुवणीए उदाहरणं ॥” इति,
उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा तत्र 'तव्वत्थुए 'त्ति तदेवपरोपन्यस्तसाधनं वस्त्विति-उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये सतद्वस्तुकोऽथवा तदेव परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक त्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह- समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि स्थिताः, तत्पत्राणि च यानि
For Private & Personal Use Only
www.jainelibrary.org
11911
Jain Education International