________________
स्थानं-४, - उद्देशकः -३
२७९ ॥२॥ साहुक्कारपुरोयं जह सा अनुसासिया पुरजणेणं ।
वेयावच्चाईसुवि एव जयंतेवबूहेजा" इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपिभावनीयमिति, तथाउपालम्भनंउपालम्भो-भङ्गवन्तरेणानुशासनमेवसयत्राभिधीयतेसउपालंभो यथा क्वचिदपराधवृत्तयो विनेयाउपालम्भनीयाः यथा महावीरसमवसरणेसविमानगतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाग्नि साध्वी स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपं गता तया चोपालब्धा - अयुक्तमिदं भवाशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः,
तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणंभगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त! चक्रवर्तिनोऽपरित्यक्तकामामृताः क्वोत्पद्यन्ते?, भगवताऽभिहितं-सप्तमनरकपृथिव्यां, ततोऽसौ बभाण-अहं कोत्पत्स्ये?, स्वामिनोक्तं-षष्ठयां, स उवाच-अहं किं न सप्तम्यां?, स्वामिना जगदेसप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ-किमहं न चक्रवर्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे-तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालिकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति ।
तथा 'निस्सावयणे'त्ति निश्रया वचनं निश्रावचनम्, अयमर्थः-कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनंतचत्र विधेयतयोच्यतेतदाहरणं निश्रावचनं, यथाअसहनान् विनेयान्माईवसम्पन्नमन्यमालम्ब्य किञ्चिब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम! चिरपरिचितोऽसि गौतम ! मा त्वमधृति कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च - "पुच्छाए कोणिए खलु निस्सावयणमिगोयमस्सामि" इति॥व्याख्यातं तद्देशोदाहरणम्, तद्दोषोदाहरणमथ व्याख्यायते, तच्च चतुर्द्धा,
तत्र 'अहम्मजुत्तेति यदुदाहरणंकस्यचिदर्थस्यसाधनायोपादीयतेकेवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्मबुद्धिरुपजन्यते तदधर्मयुक्तं, तद्यथा-उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि-पुत्रखादकमकोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचितचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणोपायेन विश्वासिता मिलिताश्चौरा विषमिश्रभोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधर्मयुक्तत्वात् तथाविधश्रोतुरधर्मबुद्धिजनकत्वाच्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति,
'पडिलोमेति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थं तदपहृताभयकुमारश्चकारेति, तद्दोषता चास्यश्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात्, अथवा धृष्टप्रतिवादिना द्वावेवराशिजीवश्चाजीवश्चेत्युक्तेतयतिघात्तार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org