________________
२७६
स्थानाङ्ग सूत्रम् ४/३/३६० वाप्तद्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिकरदर्शनोत्पन्नसंवेगात्प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्परिहारश्चप्रव्रज्ययातत्त्यागादिति, आहरणताचास्य देशेनोपनयस्याविवक्षणादिति, तथाक्षेत्रात् क्षेत्रेवा क्षेत्रमेववाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि,
तत्पप्रयोगः-उपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरीयथा दशार्हचक्रवर्जयामासेति, अथवासम्भवत्यपायः सप्रत्यनीकक्षेत्रेससर्पगृहवत्, कालापायो यथा-सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महामागवत् नागदत्तक्षुल्लकवद्वेति,
तथाहि-किल कश्चित क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्पन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पनोऽनन्तरं च्युतो जातिस्मरष्टिविषसप्तयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाकतया चमध्ष्टिविषेणमाघातकपुरुषविघातो भवत्वितिभावनयापुच्छतोनिर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहतवानिति, तथा स एवानन्तरं, नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रव्रज्योऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाचात्यन्तक्षुधालुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च मत्सराभोजनमध्यनिष्ठयूतनिष्ठीवनोत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह॥१॥ “दव्वावाए दुन्नि उ वाणियगा मायरो धननिमित्तं ।
___ वहपरिणयमेक्कमिक्कं दहमि भच्छेण निव्वेओ ॥२॥
खित्तंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं ।
वायणो व काले भावे मंडुकियाखमओ" इति, 'उवाए'त्ति उपायः- उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत्, उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपिद्रव्यादिभिश्चतुर्दैव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तप्रयोगश्चैवम्-अस्ति सुवर्णादिचूपायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिध्धादिवदिति, एवं क्षेत्रोपाय:-क्षेत्रपरिकर्मणोपायोयथाअस्त्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org