________________
२७७
-
स्थानं-४, - उद्देशकः-३ क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपायः- कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहिवाकालंघटिकाच्छायादिनोपायेनतथाभूतगणितज्ञवदिति, एवंभावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन विज्ञातचौरादिभावाभयकुमारवदिति,
तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्वर्तुकफलादिसमृद्धारामस्याम्रफलानां अकालम्रफलदोहदवमार्यादोहदपूरणार्थं चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थं नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत्, तथाहि-काचिद् वृद्धकुमारिकावाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणिचोरयन्ती आरामपतिनागृहीता सद्भावकथने विवाहितयापत्याअपरिभुक्तयामत्पाबें समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपाइँ गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनांमध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तुचौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वातंबन्धयामासेति, अत्रापि गाथे॥१॥ “एमेव चउविगप्पो होइ उवाओऽवि तत्थ् दव्वम्मि ।
धाउव्वाओ पढमो नंगलकुलिएहिं खेत्तं तु ॥२॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ।
चोरस्स कए नट्टिय वडकुमारिं परिकहिंसु । " इति 'ठवणाकम्मे'त्तिस्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म-करणं स्थापनाकर्म येन ज्ञातेन परमतंदूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकर्मेतिभावः, तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं, तत्र ह्युक्तमस्ति-काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकद्देममार्गः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकईम एवामोघवचनतया तदुध्धृ तवानिति ज्ञातम्,
उपनयश्चायमत्र-कर्दमस्थानीया विषयाः पुण्डरीकं राजादिभव्यपुरुषः चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषःसाधुःअमोधवचनं धर्मदेशनापुष्करिणीसंसारःतदुद्धारोनिर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीथिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदताआचार्येणपरमतदूषणेन स्वमतंस्थापितमतोभवतीदं ज्ञातस्थापनाकर्मेति, अथवाऽऽपन्न दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म, किल मालाकारेणकेनापिराजमार्गपुरीपोत्सर्गलक्षणापराधापोहायतत्स्थानेपुष्पपुअकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति, एतस्मात्किला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org