________________
स्थानं-४, - उद्देशकः -३
२७५ ज्ञातहेतुत्वात्, चतुर्विधं दर्शयति-तत्र आ-अभिविधिना ह्रियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्शन्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देशस्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र-यत्र दृष्टान्तार्थदशेनैव दार्शन्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैवदेशेन मुखस्योपनयनंनानिष्टेन नयननासावर्जितत्त्वकलङ्कादिनेति, तथा तस्यैवआहरणस्य सम्बन्धी साक्षाप्रसङ्गसम्पन्नोवादोषस्तद्दोषः सचासौधमर्मे धर्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतद्दोष इति, अथवा तस्य-आहरणस्य दोषो यस्मिंस्तत्तथा, शेषतथैव, अयमत्र भावार्थः-यत्साध्यविकलत्वादिदोषदुष्टंतदोषाहरणं, यथानित्यः शब्दोऽमूर्तत्वात् घटवत्, इह साध्यसाधवैकल्यं नाम दृष्टान्तदोषो, यच्चासमाभायिदवचनरूपंतदपि तद्दोषाहरणं; यथा सर्वथाऽहमसत्यं परिहरामिगुरुमस्तककर्तनवदिति, यद्वा साध्यसिद्धि कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्ममिच्छन्ति लौकिकमुनयोऽपि॥१॥ “वरं कूपशताद्वापी, वरं वापीशताक्रतुः ।
वरंक्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् " इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा-बुद्धिमता केनापि कृतमिदं जगत् सनिवेशविशेषवत्त्वात्घटवत् सचेश्वरइति, अनेन हि सबुद्धिमान्कुम्भकारतुल्योऽनीश्वरः सिद्धतीति, ईश्वरश्च स विवक्षित इति, तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनायः क्रियते पर्यनुयोगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञातहेतत्वादिति, यथा अकर्ताऽऽत्मा अमूर्तत्वादाकाशवदित्युके अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति,
यथावामांसभक्षणमदुष्टंप्राण्यङ्गत्वादोदनादिवत्, अत्राहान्यः-ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथावा त्यक्तसङ्गा वस्त्रपात्रादिसङग्रहं न कुर्वन्ति ऋषभादिवत्, अत्राहकुण्डिकाद्यपि तेन गृह्णन्ति तद्वंदेवेति, तथा कस्मात्कर्म कुरुषेयस्माद्धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधय॑द्वितीयं देशसाधर्म्य तृतीयं सदोषं चतुर्थं प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इहब देशतः संवादगाथा॥१॥ "चरियं च कप्पियं वा दुविहं तत्तो चउब्विहेक्केकं ।
आहरणे तद्देसे तद्दोसे चेवुधनासा" इति, 'अवाये' अपायः-अनर्थः सयाद्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्रद्रव्याद्रव्येवाऽपायोद्रव्यमेववातत्कारणत्वादपायोद्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि तथोच्यते, तप्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात्परस्परमारणपरिणतयोः स्वग्रामाबहिःप्राप्तावनुतापात् ह्रदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपात् िगृहीतस्य तस्य मत्स्यस्य विदारणेऽ
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org