________________
२७२
स्थानाङ्ग सूत्रम् ४/३/३५२ वृ. 'चत्तारि त्यादि, ह्रिया-लज्जया सत्त्वं-परीषहादिसहने रणाङ्गणेवा अवष्टम्भो यस्य स ह्रीसत्त्वः, तथा ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्षकम्पादिभयलिङ्गोपदर्शनात्सत्त्वं यस्य स हीमनःसत्त्वः, चलम्-अस्थिरंपरीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात स्थिरसत्त्व इति । स्थिरसत्त्वोऽनन्तरमुक्तः, स चाभिग्रहान् प्रतिपद्य पालयतीति तद्दर्शनाय सूत्रचतुष्टयमिदं
मू. (३५३) चत्तारिसिज्जपडिमाओ पं०, चत्तारिवत्थपडिमाओपं०, चत्तारिपायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं०।
वृ. 'चत्तारिसिज्जे'त्यादि, सुगम, नवरंशय्यतेयस्यांसा शय्या-संस्तारकः तस्याः प्रतिमाअभिग्रहाःशय्याप्रतिमाः, तत्रोद्दिष्टंफलकादीनामन्यतमत् ग्रहीष्यामिनेतरदित्येका, यदेवप्रागुद्दिष्टं तदेव यदि द्रक्ष्यामितदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपियदितस्यैव शय्यातरस्य गृहे भवतिततोग्रहीष्यामिनान्यतआनीयतत्र शायिष्यइतितृतीया, तदपिफलकादिकंयदि यथासंस्तुतमेवास्तेततोग्रहहीष्यामिनान्यथेतिचतुर्थी, आसुचप्रतिमास्वाद्ययोःप्रतिमयोगच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तरगतानं तु चतस्रोऽपि कल्पन्त इति,
__ वस्त्रप्रतिमा-वस्त्रग्रहणविषयेप्रतिज्ञाः, काप्पासिकादीत्येवमुद्दिष्टंवस्त्रंयाचिष्येइतिप्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परभुक्तप्रायंवस्त्रंग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधमकंग्रहीष्यामीतिचतुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्यतथा प्रेक्षितं २ तथा दातुः स्वाङ्गिकं परिभुक्तप्रायं द्वित्रेषु वापात्रेषुपर्यायेण परिभुज्यमानं पात्र याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी,स्थानंकायोत्सर्गाद्यर्थंआश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचि भिक्षोरेवंभूतोऽभिग्रहो भवाति यथा-अहमचित्तंस्थानमुपाश्रयिष्यामितत्रचाकुञ्चनप्रसारणादिकांक्रियांकरिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैवस्तोकपादविहरणंसमाश्रयिष्यामीतिप्रथमाप्रतिमा, द्वितीया त्वकुञ्चनप्रासारणादिक्रियामवलम्बनंचकरिष्येन पादविहरणमिति, तृतीयात्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्रत्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं
मू. (३५४) चत्तारिसरीरगाजीवकुडापं० २०-वेउब्विएआहारएतेयए कम्मए, चत्तारि सरीरगा कम्मम्मीसगा पं० २०-ओरालिए वेउव्विए आहारते तेउते।
वृ. चत्तारि'त्यादिव्यक्तं, किन्तु जीवेनस्पृष्टानि-व्याप्तानिजीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं
मू. (३५५) चउहिं अस्थिकाएहिं लोगे फुडे पं० तं०-धम्मत्थिकाएणं अधम्मत्थिफाएणं जीवत्थिकाएणं पुग्गलत्थिकाएणं, चउहि बादरकातेहिं उवञ्जमाणेहिं लोगे कुडे पं० तं०पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org