SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -३ - २७३ वृ. 'चउही 'त्यादि, गतार्थं, केवलं 'फुडे' त्ति स्पृष्टः प्रतिप्रदेशं व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोक उत्पादात् बादरतैजसानां तु सर्वलोकादुद्वृत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्द्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच्च 'चउहिं बादरकाएहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुव त्त्य पृथिव्यादि घनोदध्यादिधनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासमयेयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायाम् " एत्थ णं बादरपुढविकाइयाणं पञ्जत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स, असंखेज्जइभागे,” तथा “बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए,” एवमब्वायुवनस्पतीनां तथा "बादरतेउक्काइयाणं पज्जत्ताणं ठाणां पत्रत्ता, उववाएणं लोयस्स असंखेज्जइभागे" बादरतेउक्काइयाणं अपजत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उड्डकवाडेसुं तिरियलोयतट्ठे य” त्ति द्वयोरूर्ध्वकपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा "कहिन्नं भंते! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपजत्तगाण य ठाणा पन्नत्ता ?, गोयमा ! सुहुमपुढविकाइया पत्ता जे य अपजत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो !” त्ति, एवमन्येऽपि, "एवं बेइंदियाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागो"त्ति, एवं शेषाणामपीति । चतुर्भिर्लोकः स्पृष्टइत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह मू. (३५६) चत्तारि पएसग्गेणं तुल्ला पं० तं०-धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एग जीवे । वृ. ' चत्तारि त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण प्रदेशपरिमाणेनेति तुल्याः समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात्, 'लोयागासे' त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिकायादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणं, ‘एगजीवे 'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकरग्रहणमिति । पूर्वं पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाहमू. (३५७) चउण्हमेगं सरीरं नो सुपस्सं भवइ, तं०-पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं । वृ. 'चउण्ह'मित्यादि कण्ठ्यं, किन्तु 'नो पस्सं' तिचक्षुषा नो दृश्यमतिसूक्ष्मत्वात्, क्वचित् नो सुपरसंति पाठः, तत्र न सुखदृश्यं न चक्षुषः प्रत्यक्ष दृश्यमनुनादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमनेकं वा अध्श्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह मू. (३५८) चत्तारि इंदियत्था पुट्ठा वेदेति, तं०-सोतिंदियत्थे घाणिंदियत्थे जिडिंभदियत्थे फासिंदियत्थे । वृ. 'चत्तारिइंदिये 'त्यादि, स्पष्टं, किन्तु इन्द्रियैरर्यन्ते - अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुट्ठ' त्ति स्पृष्टाः - इन्द्रियसम्बद्धा 'वेएंति' त्ति वेद्यन्ते - आत्मना ज्ञायन्ते, नयनमनोवर्जानां श्रोत्रादीनां 3 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy