________________
स्थानं-४, - उद्देशकः -३
२७१
आकीर्णो गुणवान् आकीर्णतया गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति - प्रवर्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया-गलितया वहति, अन्यस्तु खलुङ्कः आरोहक गुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषादार्थन्तिका योज्याः, सूत्रे तु क्वचिन्नोक्ताः, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्द्धिकसंयोगैर्दशैव प्रकन्थकध्ष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिक पुरुषसूत्राणि भवन्तीति, नवरं जयः पराभिभव इति, सिंहतया ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, श्रृगालतया दीनवृत्त्येति । पूर्वं पुरुषाणा - मश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह
मू. (३५०) चत्तारि लोगे समा पं० तं० - अपइट्ठाणे नरए १ जंबुद्दीवे दीवे २ पालते जाणविमाणे ३ सव्वट्ठसिद्धे महाविमाणे ४, चत्तारि लोगे समा सपक्खि सपडिदिसिं पं० तं०सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी ।
वृ. ' चत्तारी 'त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थं तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तभ्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्त्ती, स च योजनलक्षं, पालकं पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानञ्च यानाय वा गमनाय मविमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पञ्चानामनुत्तरविमानानां मध्यमिति । चत्वारो लोके समा भवन्ति, कथमिहत्याह-'सपक्खि सपडिदिसं' ति समानाः पक्षाः - पार्वा दिशो यस्मिन् तत्सपक्षं इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद्यथा भवत्येवं समा भवन्तीति, सध्शाः पक्षैरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयोर्हि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोर्न समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः - कालस्तदुपलक्षितं क्षेत्रं समय क्षेत्रं मनुष्य क्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्- अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः-उच्छ्रयादिलक्षणो यस्यां सेषव्याग्भारा । ईषत्प्राग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह
मू. (३५१) उड्डलोगे णं चत्तारि बिसरीरा पं० तं०- पुढविकाइया आउ० वणस्सइ० उराला तसा पाणा, अहो लोगे णं चत्तारि बिसरीरा पं० तं०-एवं चेव, एवं तिरियलोएवि ४ ।
वृ. 'उड्डे' त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एकं पृथिवीकायिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात्, 'ओराला तस' त्ति उदाराः स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सिद्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामन्तरभवे सिद्धेरभावाद्, उक्तञ्च - "विगला लभेज्ज विरई नहु किंचि लभेज्ज सुहुमतसा" इति ।
लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरलतिदेशसत्रे, गतार्थेइति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुषं भेदैराह
मू. (३५२) चत्तारि पुरिसजाया पं० तं०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International