________________
२७०
स्थानाङ्ग सूत्रम् ४/३/३४९
अथवा तमसि-उक्तरूपे बले च-सामर्थ्य प्ररज्यते-रतिं करोतीति तमोबलप्ररञ्जनः एवं ज्योतिर्बलप्ररजनोऽपि, नवरंज्योतिः-सम्यग्ज्ञानमादित्यादिप्रकाशोवेति, एवमितरावपि, इहापि त इव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिताः द्रष्टव्याः, अथवा तमस्तथैवाप्रसिध्धो वा तमोबलेन-अन्धकारबलेन सञ्चरन् प्रलज्जते इति तमोबलप्रलज्जनः-प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपि कारणादन्धकारचार्येवेति, 'पज्जलणे त्तिक्वचित्पाठ; तत्राज्ञानबलेनान्धकारबलेन वाज्ञानबलेनप्रकाशबलेनवाप्रज्वलतिदर्पितो भवत्यवष्टम्भं करोति यः स तथेति।
__ परिज्ञातानि-ज्ञपरिज्ञयास्वरूपतोऽवगतानि प्रत्याख्यानपरिज्ञयाच परिहतानि कर्माणिकृष्यादीनि येन स परिज्ञातकर्मा नो-नच परिज्ञाताः संज्ञा-आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रव्रजितःश्रावकोवेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात्नपरिज्ञातका कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयतइति।परिज्ञातकर्मा-सावधकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासोनत्यक्तारम्भोदुष्प्रव्रजितइति द्वितीयःतृतीयः साधुश्चतुर्थोऽसंयतः, त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासोगृहस्थत्वादेकःअन्यस्तुपरिहतगृहवासोयतित्वादभावितत्वान्न परिहतसंज्ञः अन्य उभयथा अन्यो नोभयथेति ।
इहैव जन्मन्यर्थः-प्रयोजनं भोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुर्बालतपस्वी वा इह परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिर्मूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थो अन्यस्तु परत्र प्रतिबन्धात्परस्थः अन्यस्तूभयस्थः अन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति। एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तम्॥१॥ “जह जह बहुस्सुओ संमओय सीसगणसंपरिवुडो य ।
अविणिच्छिओय समए तह तह सिद्धंतपडिणीओ" इत्येक; तथा एकेन श्रुतेनैवान्योवर्द्धतेद्वाभ्यांसम्यग्दर्शनविनयाभ्यांहीयतेइति द्वितीयः, द्वाभ्यांश्रुतानुष्ठानाभ्यामन्योवर्द्धतेएकेन सम्यग्दर्शनेन हीयतेइतितृतीयः, द्वाभ्यांश्रुतानुष्ठानाभ्यां अन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येक;, अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयते इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थः, अथवा क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोमाभ्यां हीयत इति ।
प्रकन्थकाः पाठान्तरतः कन्थका वा-अश्वविशेषाः, आकीर्णो-व्याप्तो जवादिगुणैः पूर्व पश्चादपि तथैव, अन्यस्तावकीर्णः पूर्व पश्चात्खलुको-गलिरविनीत इति, अन्यः पूर्वखलुङ्कः पश्चादाकीर्णो गुणवानिति चतुर्थः पूर्वपश्चादपि खलुक्क एवेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org