________________
२६४
स्थानाङ्ग सूत्रम् ४/३/३४५ पंच जोयणसताइं हव्वमागच्छति ४, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचातेति हव्वमागच्छित्तए ।
चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते संचाएइ हव्वमागच्छित्तए तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने, तस्स णं एवं भवति - अत्थि खलुमम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविड्डी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि, १, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति- एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा अइदुक्कर २ कारते, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णंएवं भवति
अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविड्डुिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमान्नागतं ३, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्त्रे तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगएति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति, जो मे पुव्विं चयति से संबोहेतव्वे, इच्चेतेहिं जाव संचातेति हव्वमागच्छितते ४ । वृ. 'चउही 'त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं तथापि किञ्चिदुच्यते, चउहिं ठाणेहिं नो संचाएइत्ति सम्बन्धः, तथा देवलोकेषु देवमध्ये इत्यर्थः, हव्वं शीघ्रं, संचाएइत्तिशक्नोति, काममोगेषु मनोज्ञशब्दादिषु मूर्च्छित इह मूर्च्छितो- मूढस्तस्त्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात् गृद्धः तदाकाङ्क्षावान् अतृप्त इत्यर्थः ग्रथित एव ग्रथितस्तद्विषयस्नेहरज्जुभिसंदर्भित इत्यर्थः, अध्युपपन्नः अत्यन्तं तन्मना इत्यर्थः, नाद्रियते न तेष्वादरवान् भवति, न परिजानाति एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थं बध्नाति एतैरिदंप्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिप्रकल्पम्अवस्थानविकल्पनमेतेष्वेहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा मर्यादया प्रकृष्टः कल्पः- आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्त्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेकं कारणं, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूर्च्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिः द्वितीयं, तथाऽसौ देवो यतो भोगेषु मूर्च्छितादिविशेषणो भवति ततस्तव्प्रतिबन्धात्
'तस्स णं'मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्च्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलोदिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाह्लादकत्वाद्, एकार्थी वैती अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, 'चत्तारि पंचे' ति विकल्पदर्शनार्थं कदाचित् भरतादिष्वेकान्तसुषमागदौ चत्वार्येवान्यदा तु पञ्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषुं देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तं, न च देवोऽन्यो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International