SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६५ स्थानं - ४, - उद्देशकः -३ वा नवभ्यो योजनेभ्यः परतः आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं श्रृणुयुर्यदि परं प्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं न गमनम्, आगमनकारणानि प्रायः प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्वमूर्च्छितादिविशेषणो यो देवस्तस्य 'एव' मिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह - आचार्य इति वा आचार्य एतद्वास्ति इतिः-उपप्रदर्शने वा विकल्प एवमुत्तरत्रापि क्वचिदितिशब्दो न दृश्यतेतत्र तु सूत्रं सुगममेवेति, इह च आचार्यः-प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा उपाध्यायः -सूत्रदाता प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्त्ती, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी - गणाचार्यः गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धः, गणस्यावच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हि तं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरात, 'इम' त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वा देवर्द्धिः-विमानरत्नादिका द्युतिः शरीरादिसम्भवा युतिर्वा -युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा-उपार्जिता जन्मान्तरे प्राप्ता- इदानीमुपनता अभिसमन्वागता-भोग्यावस्थां गता, 'तं'ति तस्मात्तान् भगवतः पूज्यान् वन्दे स्तुतिभिः, नमस्यामि प्रणामेन सत्करोमि आदरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासेसेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीयं, तथा 'भाया इ वा भज्जा इ वा भइणी इवा पुत्ताइ वा धूया इ वे 'ति यावच्छब्दाक्षेपः, स्नुषा-पुत्रभार्या 'तं' तस्मात्तेषामन्तिकं समीपं प्रादुर्भवामिप्रकटीभवामि 'ता' तावत् 'मे' मम 'इमे' इति पाठान्तर इति तृतीयं, तथा मित्रं पश्चात्स्नेहवत् सखा-बालवतस्यः सुहृत्-सज्जनो हितैषी सहायः सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यते यस्यासौ साङ्गतिकः परिचितस्तेषां, ‘अम्हे’त्ति अस्माभिः ‘अन्नमन्नस्स' त्ति अन्योऽन्यं 'संगारे' त्ति सङ्केतः प्रतिश्रुतः - अभ्युपगतो भवति स्मेति, 'जेमो' त्ति योऽस्माकं पूर्वं च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थं, इदञ्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीवेषु भवनपत्यादिषूत्पद्य च्युत्वा च नरतयोत्पन्न- स्यान्यः पूर्वलक्षादि जीवित्वा सौधर्म्मादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आहमू. (३४६) चउहिं ठाणेहिं लोगंधारे सिया, तं०-अरहंतेहिं वोच्छिज्ज्रमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्ज्रमाणे पुव्वगते वोच्छिज्ज्रमाणे जायतेते वोच्छिज्रमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं० अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं नाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोगं हव्वमागच्छेज्जा, तं० - अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy