________________
२६२
स्थानाङ्ग सूत्रम् ४/३/३४३
रूपं साधुनेपथ्यं जहाति -त्यजति कारणवशात् न धर्मं- चारित्रलश्रणं बोटिक - मध्यस्थितमुनिवत्, अन्यस्तु धर्म्म न रूपं निह्नववत्, उभयमपि उत्प्रव्रजितवत्, नोभयं सुसाधुवत्, धर्म्म त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादां, इह कैश्चिदाचार्यैः तीर्थकरानुपदेशेन संस्थितिः कृता यथा नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म्म त्यजति न गणस्थितिं, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयः यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्म्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थं इति उक्तं
च
"सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तयंपि पूएमो "त्ति,
--
प्रियो धर्म्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्म्मा न च ध्ढो धर्म्मो यस्य, आपद्यपि तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः स दृढधर्मेति, उक्तं च“दसविहवेयावच्चे अन्नतरे खिप्पमुज्जमं कुणति । अच्चंतमनेव्वाणिं धिइविरियकिसो पढमभंगो"
॥१॥
अन्यस्तु दृढधर्म्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्म्मा कष्टेन धर्म्मप्रतिपत्तेः, इतरौ सुज्ञानौ, उक्तं च
119 11
|| 9 ||
"दुक्खेण उगाहिज्जइ बीओ गहियं तु नेइ जा तीरं । उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो " इति, आचार्यसूत्रचतुर्थभङ्गे यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह- धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च
119 11
“धम्मो जेणुवइट्ठो सो धम्मगुरू गिही व समणो वा । कोवि तिहिं संपउत्तो दोहिवि एक्केक्कगेणेव " इति,
त्रिभिरिति प्रव्राजनोत्थापनाधम्र्म्माचार्यत्वैरिति, उद्देशनम् अङ्गादेः पठनेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्यो- गुरुः उद्देशनाचार्यः, उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्तेगुरोः समीपे वस्तुं शीलमस्यान्तेवासी शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह-धर्मान्तेवासी धर्म्मप्रतिबोधनतः शिष्यः, धम्र्म्मार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्म्मान्तेवासीति, निर्गता बाह्याभ्यन्तरग्रन्थान्निर्ग्रन्थाः साधवो, रत्नानि भावतो ज्ञानादीनि तैव्यवहरतीति रानिकः पर्यायज्येष्ठ इत्यर्थः श्रमणो-निर्ग्रन्थो महान्ति - गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाकर्म्मा, महती क्रियाकायिक्यादिका कर्म्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति- आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्म्मस्यानाराधको भवतीत्येकः, अन्यस्तु पर्यायज्येष्ठ एवाल्पकर्म्मा लघुकर्म्मा अल्पक्रिय इति द्वितीयः, अन्यस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org