________________
स्थानं ४, - उद्देशकः -३
२६१
सदसदुभयानुभयानुष्ठानरूपत्वात्, अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमय-बोधापेक्षयेयं चतुर्भङ्गी नेयेति, एकं पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्वत् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थं बदयदिरिवेति, पुरुषो रूपसम्पन्नो-रूपवान् सुविहितरूपयुक्तो वेति ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति,
आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'मुद्दिय'त्ति मृद्वीका - द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषद्बहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्त्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽशनविशेषप्रतिपन्नकादिरिति, करोत्येवैकोवैयावृत्त्यं निःस्पृहत्वात् १ प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २ अन्यः करोति प्रतीच्छति च स्थविरविशेषः ३ उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४, ‘अट्ठकरे’त्ति अर्थान्-हिताहितप्राप्तिपरिहारादीन् राजादीनां दिग्यात्रादौ तथपदेशतः करोतीत्यर्थकरः- मन्त्री नैमित्तिको वा, स चार्थकरो नामेको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा
॥१॥
“पुट्ठापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ । तइओ पुट्ठो सेसा उ निष्फला एव गच्छेवि " इति, गणस्य-साधुसमुदायस्यार्थान्-प्रयोजनानि करोतीति गणार्थकरः- आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात्, एवं त्रयोऽन्ये, उक्तं च“आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ ।
॥१॥
ओन जाइ माणं दोनिवि तइओ न उ चउत्थो ;" इति,
अथवा 'नो माणकरो' त्ति गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह-‘गणसंगहकरे' त्ति गणस्याहारादिना ज्ञानादिना च सङग्रहं करोतीति गणसङग्रहकरः, शेषं तथैव, स उक्तं च
119 11
“सो पुण गच्छस्सऽ हो उ संगहो तत्थ संगहो दुविहो । दव्वे भावे नियमाउ होति आहारणाणादी'
आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति स द्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org