________________
स्थानाङ्ग सूत्रम् ४/३/३४३ उवट्ठावणातरिते धम्मायरीए, चत्तारि आयरिया पं० तं०- उद्देसणायरिए नाममेगे नो वायणायरिए ४ धम्मायरिए, चत्तारि अंतेवासी पं० तं०-पव्वायणंतेवासी नामं एगे नो उवट्ठावणंतेवासी ४ धम्मंतेवासी, चत्तारि अंतेवासी पं० तं० उद्देसणंतेवासी नामं एगे नो वायणंतेवासी १ ४ धम्मंतेवासी, चत्तारि निग्गंथा पं० तं०- रातिनिये समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अनाराधते भवति १ राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अनातावी असमिते धम्मस्स अनाराहते भवति ३, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, चत्तारि निग्गंथीओपं-तं०-रातिणिया समणी निग्गंथी एवं चेव ४, चत्तारि समणोवासगा पं० तं०-रायणिते समणोवासए महाकम्मे तहेव ४, चत्तारि समणोवासियाओ पं० तं० - रायणिता समणोवासिता महाकम्मा तहेव चत्तारि गमा ।
वृ. 'चत्तारी 'त्यादि कण्ठ्यश्चायं, नवरं यानं शकटादि, तद्युक्तं बलीवर्द्धादिभिः, पुनर्युक्तंसङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकं अन्यत् युक्तं तथैवायुक्तं तूक्तविपरीतत्तवादिति, एवमितरौ, पुरुषवस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधर्मानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिः युक्तपरिणतं तु अयुक्तं सत्सामग्ग्रा युक्ततया परिणतमिति, पुरुषः पूर्ववत्, युक्तरूपं-सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः- उचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता उचिता शोभा यस्य स तथेति, युग्यंवाहनमश्वादि, अथवा गोल्लविषये जंपानं द्विहस्तप्रमाणं चतुरम्नं सवेदिकमुपशोभितं युग्यकमच्यते तद्युक्तमारोहणसामग्ग्रा पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह'एवं जहे 'त्यादि, प्रतिपक्षो दार्शन्तिकस्तथैव, कोऽसावित्याह
२६०
'पुरिसजाय'त्ति पुरुषजातानीत्येवं परिणतरूपशोभसूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नामं एगे अजुत्तसोभे, एतदेवाह 'जाव सोभे' त्ति, सारथि:शाकटिकः, योजयिता शकटे गवादीनां न वियोजयिता - मोक्ता, अन्यस्तु वियोजिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटपत्येवेति, अथवा योकयन्तं प्रयुङ्क्ते यः स योञ्क्रापयिता वियोच्क्रयतः प्रयोक्ता तु वियोक्रापयितेति, लोकोत्तरपुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता-संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्त्तयितेति, यानसूत्रवत् हयगजसूत्राणीति, 'जुग्गारिय'त्ति युग्यस्य चर्या वहनं गमनमित्यर्थः, क्वचित्तु 'जुग्गायरिय'त्ति पाठः, तत्रापि युग्याचर्येति, पथयायि एकं युग्यं भवति नोत्पथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देदेशे चतुर्विधत्वेनोक्त्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमवसेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्यं - संयमयोगभरवोढा साधुः, स च पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेषः उभययायी प्रमत्तः चतुर्थः सिद्धः क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-