________________
स्थानं ४, - उद्देशक: -३
-
मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सङ्लिख्यतेऽनया शरीरकषायादीति सङ्गलेखना-तपोविशेषः सा चेति अपश्चिममाराणान्तिकीसङ्लेखना तस्याः 'जूसण' त्ति जोषण सेवनालक्षणो यो धर्म्मस्तया 'जूसिय' त्ति जुष्टः सेवितः अथवा क्षपितः क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेषं प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाङ्क्षन् तत्रानुत्सुक इत्यर्थः, विहरति तिष्ठति
मू. (३३७) चत्तारि पुरिसजाया पं० तं० - उदितोदिते नाममेगे उदितत्थमिति नाममेगे अत्थमितोदिते नाममेगे अत्थमियत्थमिते नाममेगे, भरहे राया चाउरंतचक्कवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्थमिते, हरितेसबले गंअनगारे णंअत्थमिओदिते, काले णं सोचरिये अत्थमितेत्थमिते ।
२५७
-
वृ. उदितश्चासी उन्नतकुलबलसमृद्धिनिरवद्यकर्म्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धं १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वा चेत्युदितास्तमितो ब्रह्मदत्तचक्रवर्त्तीव, स हि पूर्व्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितः अतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालनधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकमहावेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्त्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्रकर्म्मवशावाप्तहरिकेशाभिधानचाण्डाललुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति,
पश्चात्तु प्रतिपन्नप्रवज्यो निष्प्रकम्पचरणगुणावर्जितदेवकृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति ३, तथा अस्तमितश्चासी सूर्य इव दुष्कुलतया दुष्कर्म्मकारितया च कीर्त्तिसमृद्धिक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्षु राशिष्ववतरन्तीति तान् दर्शयन्नाह
मू. (३३८) चत्तारि जुम्मा पं० तं०- कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० तं० - कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेदिताणं तेंदियाणं चउरिदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जहा नेरइयाणं
3 17
Jain Education International
वृ. 'चत्तारि जुम्मे' त्यादि, जुम्मत्ति - राशिविशेषः, यो हि राशिश्चतुष्कापहारेण अपह्रियमाणश्चतुः पर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स त्र्योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशिर्युग्ममुच्यते विषमस्तु ओज इति, इयञ्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते
॥१॥
" द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम्" इति
For Private & Personal Use Only
www.jainelibrary.org