________________
२५६
स्थानाङ्ग सूत्रम् ४/३/३३६ पन्नत्ते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० तं० - जत्थ णं सीलव्वतगुणव्वतवेरमणपञ्चक्खाणपोसहोववासाइंपडिवजेति तत्थविअसेएगेआसासे पन्नत्ते १, जत्थविय णं सामाइयं देसावगासियं सम्ममनुपालेइ तत्थविय से एगे आसासे पं० २, जत्थवियं णं चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेइ तत्थवि य से एगे आसासे पन्नत्ते ३, जत्थवियणं अपच्छिममारणंतितसंलेहणाजूसणाजूसितेभत्तपाणपडितातिक्खितेपाओवगते कालमनवकंखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते ४
वृ. भारं-धान्यमुक्तोल्यादिकंवहमानस्य-देशाद्देशान्तरंनयतः पुरुषस्यआश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्रावसरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरतिनयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोदुरिति १, परिष्ठापयति-व्युत्सृजति२, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र वाऽऽयतनेवासुमुपैतीतिरात्रौ वसति३यावती-यत्परिमाणाकथा-मनुष्योऽयं देवदत्तादिर्वाऽयमितिव्यपदेशलक्षणा यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति-वसति इत्ययं दृष्टान्तः ४, ___ “एवमेव'त्यादि दार्शन्तिकः, श्रमणान्-साधूनुपास्ते इति श्रमणोपासकः-श्रावकस्तस्य सावधव्यापारभाराक्रान्तस्य आश्वासाः-तद्विमोचनेन विश्रामाः चित्तस्याश्वासनानि-स्वास्थ्यानि इदं मेपरलोकभीतस्यत्राणमित्येवंरूपाणीति, सहिजिनागमसङ्गमावदातबुद्धितयाआरम्भपरिग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततयापरित्याज्यावित्याकलयन्करणभटवशतयातयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं
"हियए जिणाण आणा चरियं मह एरिसं अउन्नस्स।
एयं आलप्पालं अव्वो दूरं विसंवयइ ।। ॥२॥
हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं ।
जे किल लद्धविवेया विचेट्ठिमो वालबालव्व ॥" त्ति, यत्रावसरे शीलानि समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्व्रतोपभोगपरिभोगव्रतलक्षणे विरमणानिअनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि-नमस्कारसहितादीनि पोषधःपर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पोषधोपवासः, एतेषां द्वन्द्वस्तान प्रतिपद्यतेअभ्युपगच्छति तत्रापि च 'से' तस्यैक आश्वासः प्रज्ञप्तो १,
यत्रापिच सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणंयद्-व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्व्रतगृहीतस्य दिक्खपरिमाणस्य विभागे अवकाशःअवस्थानमवतरो विषयो यस्य तद्देशावकाशंतदेव देशावकाशिकं-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्केपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणं वा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक आश्वासः प्रज्ञप्त इति२, उद्दिष्टेत्यमावास्या परिपूर्णमितिअहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३,
यत्रापिच पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा साचासौमरणमेवान्तोमरणान्तस्तत्रभवा
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org