SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्थानं-१, - उद्देशकःतत्पापस्यैव तरतमयोगादकृष्टस्य फलं, यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतम-योगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वात्मना क्षयो मोक्षः, यथाऽत्यन्ताप- थ्याहारसेवनादनारोग्यम्, तस्यैवापथ्यस्य किञ्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्वा-मारोग्यकरं, सर्वाहारपरित्यागाच्च प्राणमोक्ष इति, आह च॥१॥ “पावुक्करिसेऽधमयचा तरतमजोगाऽवकरिसओ सुभया । तस्सेव खए मोक्रवो अपत्थभत्तोवमाणाओ"त्ति, अत्रोच्यते, यदुक्तम्-'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम्, यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात्, दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति । पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाहमू. (१२) एगे पावे। वृ. 'एगेपावे' पाशयतिगुण्डयत्यात्मानं पातयति चात्मन आनन्दरसंशोषयतिक्षपयतीति पापम्, तच्च ज्ञानावरणादि व्यशीतिभेदम्, यदाऽऽह॥१॥ “नाणंतरायदसगं १० दंसण नव १९ मोहणीयछव्वीसं ४५। अस्सायं ४६ निरयाऊ ४७ नीयागोएण अडयाला ४८॥ ॥२॥ निरयदुर्ग २ तिरियदुगं४ आइचउक्कं च ८ पंच संघयणा १३ । संठाणाविय पंच उ १८ वनाइचउक्कमपसत्थं २२॥ ॥३॥ उवघाय २३ कुविहयगई २४ थावरदसगेण होति चोत्तीसं ३४ । सव्वाओ मिलिआओ बासीती पावपगईओ ८२"। तदेवं व्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामा न्यादेकमिति । ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्यं, यत्पुनस्तस्माद- वकृष्टमवकृष्टतरमवकृष्टतमंच तत्पुण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं-याकाचित्शुभमात्रेत्यर्थः-दुःखप्रकर्षइति तात्पर्यं, तस्यैवच परमावकृष्टपुण्यस्य सर्वात्मना क्षयेपुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात्पुंसः परमारोग्यसुखं, तस्यैव चकिञ्चित्(२)पथ्याहारविवर्जनादप-थ्याहारपरिवृद्धोरारोग्यसुखहानिः, सर्वथैवाहारपरिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह च॥१॥ “कम्मप्पगरिसजणियं तदवस्सं पगरिसाणुभूइओ। सोक्खप्परगरिसभूई जह पुण्णप्पगरिसप्पभवा" इति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy