________________
२४
स्थानाङ्गसूत्रम् १/-/१२
'तदितिदुःखामिति।इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाहमू. (१३) एगे आसवे।
वृ. 'एगेआसवे' आश्रवन्ति-प्रविशन्ति येन काण्यात्मनीत्याश्रवः, कर्मबनधहेतुरिति भावः, सचेन्द्रियकषायाव्रतक्रियायोगरूपः क्र मेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च॥१॥ "इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पणचउरपंचपणुवीसा।
जोगा तिन्नेव भवे आसवभेया उ बायाला" इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यजलान्तर्गतनावादौ तथाविधच्छिद्रैजलप्रवेशनं भावाश्रवस्तुयजीवनावीन्द्रियादिच्छिद्रतः कर्मजल सञ्चय इति, सचाश्रवसामान्यादेक एवेति॥अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह
मू. (१४) एगे संवरे।
वृ. 'एगे संवरे' संवियते-कर्मकारणं प्राणातिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, सचसमितिगुप्तिधर्मानुप्रेक्षापरीषहचारित्ररूपःक मेणपञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, आह च॥१॥ “समिई ५ गुत्ती ३ धम्मो १० अनुपेह १२ परीसहा २२ चरित्तं च ५।
सत्तावन्नं भेया पणतिगभेयाई संवरणे "त्ति, __ अथवाऽयं द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्यगतनावादेरनरवरतप्रविशजलानां छिद्राणां तथाविघद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ।। संवरविशेषे चायोग्यवस्थारूपे कर्मणां वेदनैव भवति नबन्ध इति वेदनास्वरूपमाह -
मू. (१५) एगा वेयणा।
वृ. 'एगावेयणा' वेदनं वेदना-स्वभावेनोदीरणाकरणेनवोदयावलिकाप्रविष्टस्यकर्मणोऽनुभवनमितिभावः, साच ज्ञानावरणीयादिकम्मपिक्षयाअष्टविधाऽपिविपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्र मिकी-रोगादिजनितेत्येवं द्विविधाऽपि वेदनासामान्यादेकैवेति॥अनुभूतरसंकर्मप्रदेशेभ्यः परिशटतीति वेदनानन्तरंकर्मपरिशटनरूपां निर्जरां निरूपयन्नाह
मू. (१६) एगा निज्जरा
वृ. 'एगा निजरा' निर्जरणं निर्जरा विशरणंपरिशटनमित्यर्थः, साचाष्टविधकर्मोपेक्षयाऽष्टविधाऽपिद्वादशविधतपोजन्यत्वेन द्वादशविधाऽपिअकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपिद्रव्यतोवस्त्रादेर्भावतः कर्मणामेव द्विविधाऽपिवानिर्जरासामान्योदेकैवेति।ननु निर्जरामोक्षयोः कः प्रतिविशेषः?, उच्यते, देशतः कर्मक्षयोनिर्जरा सर्वतस्तुमोक्षइति॥इहच जीवोविशिष्टनिर्जराभाजनंप्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह___'एगेजीवे' इत्यादि, अथवा उक्ताः सामात्यतःप्रस्तुतशास्त्रव्युत्पादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण प्ररूपयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org