________________
स्थानाङ्ग सूत्रम् १/-/१०
॥१॥ “नहि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो।
जीवद्दवस्स मओ मुद्दानासेव्व हेमस्स" (त्ति), ॥२॥ (अपिच-) “कम्मकओ संसारो तन्नासे तस्स जुज्जए नासो ।
जीवत्तमकम्मकयं तन्नासे तस्स को नासो?" (त्ति) मोक्षश्च पुण्यपापक्षयाद्मवतीति पुण्यपापयोः स्वरूपं वाच्यं, तत्रापिमोक्षस्य पुणस्य च शुभस्वरूपसाधम्यात पुण्यं तावदाह
मू. (११) एगे पुण्णे।
वृ. “एगे पुण्णे' 'पुणशुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा-पवित्रीकरोत्यामानमिति पुण्यं-शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम्, यथोक्तम्॥१॥ "सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ।
मणुयदुर्ग ७ देवदुर्ग ९ पंचेंदियजाति १० तणुपणगं १५ ॥२॥ अंगोवंगतियंपिय १८ संघयणं वज्जरिसहनारायं १९ ।
पढमंचिय संठाणं २० वन्नाइचउक्क सुपस्थं २४ ॥३॥अगुरुलहु २५ पराधायं २६ उस्सासं २७ आयवं च २८ उज्जोयं २९ ।
सुपसत्था विहयगई ३० तसाइदसगंच ४० निम्माणं ४१ तित्थयरेणं सहिया बायाला पुण्णपगईओ" ति ॥ एवं द्विचत्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यसामान्यादेकमिति । अथ कर्मैव न विद्यते प्रमाणगोचरातिक्रान्तत्वत् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति?,असत्यमेतत्, यतोऽनुमानसिद्धं कर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येवबीजं, यश्चहेतुरस्यास्तत्कर्मतस्मादस्तिकम्र्मेति, स्यान्मतिः-सुखदुःखानुभूतेईष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्मपरिकल्पनया?, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो-दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्विशिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्चसमानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म, तस्मादस्ति कर्मेति, आह च॥१॥ "जो तुल्साहणाणं फले विसेसो न सो विना हेउं ।
कज्जत्तणओ गोयम ! घडो व्व हेऊ य से कम्मं" ति, किञ्च-अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात्, यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं, यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकं, यच्छरीरपूर्वकं चेदं बालकशरीरं तत्कर्म, तस्मादस्ति कम्र्मेति, आह च - ॥१॥ "बालसरीरं देहतरपुव्वं इंदियाइमत्ताओ।
जह बालदेहपुव्वो जुवदेवो पुव्वमिह कम्मं "ति, ननुकर्मसद्भावेऽपिपापमेवैकं विद्यतेपदार्थोनपुण्यंनामास्ति, यत्तुपुण्यफलं सुखमुच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org