SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० स्थानाङ्ग सूत्रम् ४/२/३२७ वृ. सूत्रसिद्धश्चायं, ॥१॥ केवलं-जम्बू १ लवणे धायइ २ कालोए पुक्खराइ ३ जुयलाई। वारुणि ४ खीर ५ घय ६ इक्खू ७ नंदीसर ८ अरुण ९ दीवुदही ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवाल-विष्कम्भस्य प्रमाणं १६३८४०००००, उक्तंच॥१॥ "तेवढं कोडिसयं चउरासीइंच सयसहस्साइं। ___ नंदीसरवरदीवे विक्खंभो चक्कवालेणं।" इति, मध्यश्चासौ देशभागश्च-देशावयवोमध्यदेशभागः,सचनात्यन्तिक इति बहुमध्यदेशभागो नप्रदेशादिपरिगणनयानिष्टङ्कितः,अपितुप्राय इति, अथवाअत्यन्तंमध्यदेशभागोबहुमध्यदेशभाग इति, तत्रइहाजनकाः मूले दशयोजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम्-- ॥१॥ "चुलसीति सहस्साइं उबिद्धा ओगया सहस्समहे । धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा ॥ ॥२॥ नवचेव सहस्साई पंचेव य होंति जोयणसयाई। अंजनगपव्वयाणं मूलंमि उ होइ विक्खंभो॥" ॥३॥ नव चेव सहस्साइंचत्तारिय होति जोयणसयाई । अंजनगपव्वयाणं धरणियले होइ विक्खंभो ॥” इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाण'त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सव्वंजणमय'त्ति अअनंकृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाअनमयाः सर्वाचनमयाः, परमकृष्णा इति भावः, उक्तंच॥१॥ "भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति। गगनतलमनुलिहंता अंजनगा पव्वया रम्मा ॥" इति, अच्छाः आकाशस्फटिकवत्, सण्हा-लक्षणपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-लक्ष्ण मसृणा इत्यर्थः, घुण्टिवपटवत्, तथा घृष्टा इवघृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषाणप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा 'निक्कंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थःछाया-शोभायेषांते तथा अकलङ्कशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाःयतः 'समिरीया सहमरीचिभिः-किरणैर्येते तथा, अतएव सउज्जोया' सहोद्योतेनवस्तुप्रभासनेन वर्तन्ते येते तथा पासाईय'त्तिप्रासादीयाः-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः अभिरूपाः-कमनीयाः प्रतिरूपाः द्रष्टारं द्रष्यारं प्रति रमणीया इति यावत्-शब्दसङ्ग्रहः, बहुसमाः-अत्यन्तसमा रमणीयाश्च येते तथा सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामर्हअतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy