SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ स्थानं ४, - उद्देशकः -२ - २४१ च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षड्विधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा-" सव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो” इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा, - "सव्वत्थोवाइं अनंतगुणवुड्डिठाणाणि असंखेज्जगुणवुद्दिठाणाणि असंखेज्जगुणाणि जाव अनंतभागवुड्डिठाणाणि असंखेज्जगुणाणि" प्रदेशाल्पबहुत्वं यथा“अट्ठविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ" इति, यां प्रकृतिं बध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण यत्परिणमयति स सङक्रमः, उक्तं च119 11 " सो संकमोत्ति भन्नइ जब्बंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणामइ तदनुभावे जं" इति, 119 11 तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति, उक्तं च“ठिइसंकमोत्ति वुच्चइ मूलुत्तरपगईओ उ जा हि ठिई । उव्वट्टिया व ओवट्टिया व पगई निया वऽन्नं " इति, - अनुभागसंक्रमोऽप्येवमेव, यदाह"तत्थट्ठपयं उव्वट्टिया व ओवट्टिया व अविभागा । अनुभागसंकमो एस अन्नपगइं निया वावि " इति, अट्ठपयंति- अनुभागसङक्रमस्वरूपनिर्द्धारणं, 'अविभाग' त्ति अनुभागाः 'निय'त्ति नीता इति । यत्कर्म्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसङ्क्रमः, उक्तञ्च 119 11 "जं दलियमन्नपगई निज्जइ सो संकमो पएसस्स" इति, निधानं निहितं वा निधत्तं, भावे कर्म्मणि वा क्तप्रत्यये निपातनात्, उद्वर्त्तनापवर्त्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनमुच्यते, नितरां काचनं बन्धनंनिकाचितं कर्म्मणः सर्वकरणानामयोग्यत्वेनावस्थापनं, उक्तञ्चोभयसंवादि - "संकमणंपि निहत्तीए नत्थि सेसाणि वत्ति इयरस्स” इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्म्मणस्त-प्तसंमीलितलोहशलाकासम्बन्धसमानं निधत्तं, तप्तमिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादिविशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतोबन्धादिस्व- रूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति । इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुःस्थानकेऽवतारयन् 'चत्तारी' त्यादि सूत्रत्रयमाह, मू. (३१६) चत्तारि एक्का पं० तं० दविए एक्कते माउ उक्कते पजते इक्कते संगहे इक्कते वृ. एकसङ्ख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, 'माउपएक्कए' त्ति मातृकापदैककम् एकं मातृकापदं, तद्यथा उप्पन्ने इवेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि 316 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy