SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० स्थानाङ्ग सूत्रम् ४/२/३१५ व्यामोहकरः, एवं कर्म्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवञ्च कर्म्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्म्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिक्कादिद्रव्याणां परिमाणवत्त्वं एवं कर्म्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः - कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो बन्धनादीनामारम्भः, 'स्यादारम्भ उपक्रम' इति वचनादिति, तत्र बन्धनं कर्म्मपुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनं, इदं च सूत्रामात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्म्मणो बद्धावस्थीकरणं बन्धनं तदेवोपक्रमो वस्तुपरिकर्म्मरूपो बन्धनोपक्रमो वस्तुपरिकर्म्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्म्मणामुदये प्रवेशनमुदीरणा, उक्तं च 11911 "जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा । पगईठिइअनुभागप्पएसमूलुत्तरविभागा ।" तथा उदयोदीरणानिधत्तनि काचनाकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनमुपशमनेति, उक्तं च- "ओवट्टणउववट्टण संकमणाइं च तिन्नि करणाइं" इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्म्मणां सत्तोदयक्षयक्षयोपशमोद्वर्त्तनापवर्त्तनादिभिरेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति । बन्धनोपक्रमो -बन्धनकरणं चतुर्द्धा, तत्र प्रकृतिबन्धनस्योपक्रमो जीवपरिणामो योगरूपः, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं, कषायरूपः, स्थिते: कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशाबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्- "जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ" इति, प्रकृत्यादिबन्धनानामारम्मा वा उपक्रमा इति, एवमन्यत्रापि । यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिकं वीर्यविशेषेणाकृष्योदये दीयते सा प्रकृत्युदीरणेति, वीयदिव चाप्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति, तथा प्राप्तोयदयैर्नियतपरिमाणकर्म्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्म्मप्रदेशानां यद्वेदनं सा प्रदेशोदीकरणेति, इहापि कषाययोगरूपः परिणाम आरम्भो वोपक्रमार्थः प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशम-नोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमल-क्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थं जीववीर्यमिति । 'अप्पाबहुए' त्ति अल्पं च - स्तोकं बहुच-प्रभूतमल्पबहुतद्भावोऽल्पबहुत्वं, दीर्घत्वासंयुक्तत्वे For Private & Personal Use Only www.jainelibrary.org Jain Education International "
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy