SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ स्थानाङ्ग सूत्रम् ४/२/३१२ नुबन्ध्यप्ररत्याख्यानप्रत्याख्यानावरणसञ्जवलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि, वाचनान्तरेतु पूर्वं क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नत्ताओ, तं० पव्वयराई पुढविराई रेणुराई जलराई, एवामेव चउव्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टाःतदुदयवर्त्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च स्थाणुः शैलस्तम्भः, एवमन्येऽपि, नवरं, अस्थि दारुच प्रतीतं, तिनिशो-वृक्षविशेषस्तस्य लता - कम्बा तिनिशलता, साचात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, तत्फलसूत्रं व्यक्तं, कृमिरागे वृद्धसम्प्रदायोऽयं मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निर्हारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव मृदित्वा कचवरमुत्तार्य तद्रसे कञ्चिद् योगं प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारिति, तत्र कृमीणां रागो-रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कर्द्दमो-गोवाटादीनां खञ्जनं दीपादीनां हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादितभेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धत्वात्, तथाहि -कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह कषायप्ररूपणागाथाः“जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो । तिणिसलयाकट्टियसेलत्थंभोवमो मानो मायाऽवलेहिगोमुत्तिमेंढसिंगघनवंसिमूलसमा । ॥१॥ ॥३॥ लोभो हलिद्दखंजणकद्दमकिमिरागसारिच्छो पक्वचउमासवच्छरजावज्जीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया " इति ॥ अनन्तरं कषायाः प्ररूपिताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाहमू. (३१३) चउव्विहे संसारे पं० तं०-नेरतियसंसारे जाव देवसंसारे । चउव्विहे आउते पं० तं०-नेरतिआउते जाव देवाउते । चउव्विहे भवे पं० तं०-नेरतिययभवे जाव देवभवे । ॥२॥ घृ. 'चउव्विहे' इत्यादि व्यक्तं, किन्तु संसरणं संसार:-मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नामगोत्रादिषु कर्म्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-“नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा !, नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ" इति, ततो नैरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो गतिचतुष्टयं तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया चतुर्गतिको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy