________________
२३१
स्थानं-४, - उद्देशकः-२
वृ. 'चत्तारिपुरिसे' त्यादि कण्ठ्यं, नवरं कृशः-तनुशरीरःपूर्व पश्चादपि कृशएव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं ढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयंसूत्रं, तत्रकृशोभावतः,शेषंसुगम।कृशस्यैवचतुर्भझ्याज्ञानोत्पादमाह
'चत्तारि'त्यादि व्यक्तं, किन्तु कृशशरीस्य विचित्रतपसाभावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्चदर्शनञ्चज्ञानदर्शन ज्ञानेन वासहदर्शनंज्ञानदर्शनंछाद्मस्थिकं कैवलिकंवातत्समुत्पद्यते, नटशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतयातथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य ईढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य हेढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापिशुभपरिणामभवात्कृशत्वध्ढत्वे नापेक्षत इतितृतीयः, चतुर्थः सुज्ञानः। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तद्वयाघात उच्यते, तत्र
मू. (३०३) चउहिठाणेहिं निग्गंथाणवा निग्गंथीण वा अस्सिं समयंसि अतिसेसेनाणदंसणे समुप्पजिउकामेविनसमुप्पज्जेजा, तं०-अभिक्खणं अभिक्खणमित्थिकहभत्तकहं देसकहं रायकहं कहेत्ता भवति १, विवेगेण विउस्सग्गेणंनोसम्ममप्पाणंभाविता भवतिर पुव्वरत्तावरत्तकालसमयंसि नो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिज्जस्स उछस्स सामुदानियस्स नो सम्म गवेसिता भवति ४,
इचेतेहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंधीण वाजाव नो समुप्पज्जेज्जा । चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे नाणदंसणे समुप्पजिउकामे समुप्पज्जेज्जा, तं०-इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदानियस्स सम्मंगवेसिया भवति, इच्चेएहिं चउहि ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पजेजा।
वृ. 'चउही'त्यादि सूत्रं स्फुटं, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, 'अस्मिन्नितिअस्मिन्प्रत्यक्ष इवानन्तरप्रत्यासन्नेसमये अइसेसेत्तिशेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यः, ज्ञानादेरभिलाशाभावात्, कथयितेतिशीलार्थिकस्तृन्तेनद्वितीयान विरुद्धेति, विवेकेने ति अशुद्धादित्यागेन विउस्सग्गेणं'तिकायव्युत्सर्गेणपूर्वरात्रश्च-रात्रेः पूर्वोभागोअपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समयः- अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, यथा॥१॥ "किं कय किं वा सेसं किं करणिज्जं तवंच न करेमि ।
पुव्वावरत्तकाले जागरओ भावपडिलेहा" इति, ॥१॥ (अथवा)- “को मम कालो ? किमेयस्स उचियं?
असारा विसया नियमगामिणो विरसावसाणा भीसणो मधू "
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org