________________
२३२
स्थानाङ्ग सूत्रम् ४/२/३०३ इत्यादिरूपा विभक्तिपरिणामात्तयाजागरिता-जागरको भवति, अथवाधर्मजागरिकां जागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः-उच्छ्वासादयः प्राणा यस्मात् स प्रासुकोनिर्जीवस्तस्य एष्यते-गवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः-कल्प्यस्तस्य उञ्छयतेअल्पाल्पतया गृह्यत इत्युच्छो-भक्तपानादिस्तस्य समुदाने-भिक्षणे याञ्चाया भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता-अन्वेष्टा भवति, इत्येवंप्रकारैः-एतैरनन्तरोदितैरित्यादि निगमनम्, एतद्विपर्ययसूत्रं कण्ठ्यं । निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे
मू. (३०४) नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं महापाडिवएहिं सज्झायं करेत्तए, तं०-आसाढपाडिवए इंदमहपाडिवए कत्तियपाडिवए सुगिम्हपाडिवए १, नो कप्पइ निग्गंधाण वा निग्गंथीण वा चउहिं संझाहिं सज्झाई करेत्तए, तं०-पढमाते पच्छिमाते मज्जण्हे अष्टुरते २॥कप्पइ निग्गंथाणवानिग्गंथीण वा चाउकालं सज्झायंकरेत्तए, तं०-पुव्वण्हे, अवरण्हे पओसे पचूसे
वृ. 'नो कप्पई'त्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धविलक्षणतया महाप्रतिपदस्तासु, इह च देशविशेषरूढ्या पाडिवएहिति निर्देशः, स्वाध्यायो-नन्द्यादिसूत्रविषयोवाचनादिः,अनुप्रेक्षातुन निषिध्यते, आषाढस्यपौर्णमास्याअनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः-अश्वयुक्पौर्णमासी, सुग्रीष्मः-चैत्रपौर्णमासीति, इहचयत्र विषयेयतोदिवसान्महामहाःप्रवर्त्तन्तेतत्रतदिवसात्स्वाध्यायोनविधीयतेमहसमाप्तिदिनं यावत्, तच पौर्णमास्येव , प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तंच॥१॥ "आषाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्यो।
एए महामहा खलु सव्वेसि जाव पाडिवया" इति,
__-अकालस्वाध्याये चामी दोषाः ॥१॥ "सुयनाणंमिअभत्ती लोगविरुद्धं पमत्तछलणाय।
विजासाहणवेगुन्नधम्मया एव मा कुणसु" इति, विद्यासाधनवैगुण्यसाधम्र्येणैवेत्यर्थः, प्रथमासन्ध्याअनुदितेसूर्ये पश्चिमा-अस्तम-यसमये उक्तविपर्ययसूत्रंकण्ठ्यं, किन्तु 'पुवण्हे अवरण्हे'त्ति दिनस्याद्यचरमप्रहरयोः 'पओसे पच्चूसे'त्ति रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह
मू. (३०५) चउब्बिहा लोगाहिता पं० तं०-आगासपतिहिए वाते वातपतिहिए उदधी उदधिपतिट्ठिया पुढवी पुढविपइडिया तसा थावरा पाणा४
वृ. 'चउब्विहे'त्यादि, लोकस्य क्षेत्रलक्षणस्य स्थितिः-व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-धनवाततनुवातलक्षणः,उदधिः-धनोदधिः, पृथिवी-रत्नप्रभादिका,त्रसाद्वीन्द्रियादयस्ते पुनर्येरलप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनांचाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम्, अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थवरास्त्विह बादरवनस्पत्यादयोग्राह्याः, सूक्ष्माणांसकललोकप्रतिष्ठितत्वात्, शेषं सुगममिति। अनन्तरंत्रसाः प्राणा उक्ताः, अधुनात्रसप्राणविशेषस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org