________________
२३०
स्थानाङ्ग सूत्रम् ४/२/३०१ संवेगयति-संवेगंकरोतीतिसंवेद्यतेवा-संबोध्यतेसंवेज्यतेवा-संवेगंग्राह्यतेश्रोताऽनयेतिसंवेदनी संवेजनी वेति, निर्विद्यते-संसारादेनिविण्णः क्रियते अनयेति निर्वेदनीति, आचारोलोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारःकथञ्चिदापनदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः-संशयापनस्य श्रोतुर्मधुरवचनैः प्रज्ञापनं, दृष्टिवादः-श्रोत्रपेक्षया नयानुसारेण सूक्ष्मजीवादिभावकथम्, अन्येत्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराधभिधानादिति, अस्याश्चायं रसः॥१॥ "विजाचरणंच तवो पुरिसक्कारो य समिइगुत्तीओ।
उवइस्सइ खलु जंसो कहाए अक्खेवणीइ रसो" इति, स्वसमय-स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वं, ततस्तं कथयित्वा पररसमयं कथयति, तद्दोषान् दर्शयतीत्येका, एवंपरसमयकथनपूर्वकंस्वसमयंस्थापयिता-स्वसमयगुणानां स्थापको भवतीति द्वितीया, 'सम्मावाय'मित्यादि, अस्यायमर्थः-परसमयेष्वपि घुणाक्षरन्यायेन योयावान जिनागमतत्त्वादसशतया सम्यग-अविपरीततत्त्वानांवादः सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात्, विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वदं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादः अस्तित्वं, मिथ्यावादो-नास्तित्वं, तत्र आस्तिकवादिष्टीरुक्त्वा नास्तिकवादिष्टीभणतीति तृतीया, एतद्विपर्यया चतुर्थीति, .
इहलोको-मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुवंकदलीस्तम्भसमानमित्यादिरूपा, एवंपरलोकसंवेदनी देवादिभवस्वभावकथनरूपादेवाअपीष्याविषादभयवियोगादिदुःखैरभिभूताः, किंपुनस्तिर्यगादयइति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवंपरशरीरसंवेगनी,अथवापरशरीरं-मृतकशरीरमिति, इहलोकेदुश्चीर्णानिचौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाकः अनुभवोदुःखफलविपाकस्तेन संयुक्तानिदुःखफलविपाकसंयुक्तानिभवन्तिचौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आगर्भात् व्याधिदारिद्याभिभूतानामिवेतितृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बनतां काकगृधादीनामिव चतुर्थीति, _ 'इहलोए सुचिन्ने'त्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति । उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह
मू. (३०२) तहेव चत्तारि पुरिसजाया पं० तं०-किसे नाममेगे किसे किसे नाममेगे दढे दढे नाममेगे किसे दढे नाममेगे दढे, चत्तारिपुरिसजाया पं० २०-किसे नाममेगे किससरीरे किसे नाममेगे दढसरीरे दढे नाममेगे किससरीरे दढे नाममेगे दढसरीरे४।।
चत्तारिपुरिसजाया पं०२०-किससरीरस्सनामेगस्सनाणदसणेसमुप्पजतिनोदढसरीरस्स दढसरीरस्स नाम एगस्स नाणदंसणे समुप्पजति नो किससरीरस्स एगस्स किससरीरस्सविनाणदसणे समुप्पजति दढसरीरस्सविएगस्स नो किससरीरस्सनाणदंसणे समुप्पअति नो दढसरीरस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org