________________
स्थानं-४, - उद्देशकः -२
२२९
॥१॥ “आयपरमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी।
बंभवयस्स अगुत्ती पसंगदोसा य गमणादी " उनिष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपजुयज्यन्त इत्येवंरूपा कथाआवापकथा, एतावन्तस्तत्रपक्वापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतांतत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणंतत्रोपयुज्यतइति निष्ठानकथेति, उक्तश्च॥१॥ “सागघयादावादो पक्वापक्वो य होइ निव्वावो ।
आरंभ तित्तिराई निट्ठाणंजा सयसहस्सं"
-इति, इह चामी दोषाः॥२॥ “आहारमन्तरेणवि गेहीओ जायए सइंगालं ।
अजिइंदिय ओदरियावाओ उ अणुन्नदोसाय" इति, तथा देशे मगधादौ विधिः- विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तत्कथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं-स्त्रीपुरुषाणां वेशः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषाः॥१॥ “रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिगरणं ।
बहुगुण इमोत्ति देसो सोउंगमणंच अन्नेसिं " इति,
तथा अतियानं-नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा॥१॥
"सियसिंधुरखंधगओ सियचमरो सेयछत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया" इति,
एवं सर्वत्र, नवरं निर्याणं-निर्गमः, तत्कथा यथा॥१॥ __ "वजंताउज्जममंदबंदिसदं मिलंतसामंतं ।
संखुद्धसेन्नमुद्धयचिंधं नयरा निवो नियइ"
- बलं हस्त्यादि वाहनं-वेगसरादि, तत्कथा यथा॥१॥ "हेसंतहयं गजंतमयगलंघनघनंतरहलक्खं ।
कस्सऽन्नस्सवि सेनं निन्नासियसत्तुसिन्नं भो!" - कोशो-भाण्डागारं कोष्ठागारं-धान्यागारमिति, तत्कथा यथा॥१॥ 'पुरिसपरंपरत्तेण भरियविस्संभरेण कोसेणं। निज्जियवेसमणेणं तेन समो को निवो अन्नो?" इति,
-इह चैते दोषाः॥१॥ "चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा ।
भुत्ताभुत्तोहाणे करेज वा आससपओगं" भुक्तभोगोऽभुक्तभोगोवाअवधावनं कुर्यादित्यर्थः।आक्षिप्यते-मोहात्तत्त्वंप्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते-सन्मार्गात्कुमार्गे कुमार्गाद्वासन्मार्गेश्रोताऽनयेति विक्षेपणी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org