________________
स्थानं-४, - उद्देशकः -१
२१९ पर्यायभूतस्य परिणामस्य तदाह -
मू. (२७९) चउविहे पोग्गलपरिणामे पन्नत्तेतं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे।
वृ, 'चउविहे' इत्यादि, परिणामः-अवस्थातोऽवस्थान्तरगमनम्, उक्तं च॥१॥ "परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् ।
नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः" इति, तत्र वर्णस्य-कालोदेः परिणामः-अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि।अजीवद्रव्यपरिणामउक्तोऽधुनातुजीवद्रव्यस्यपरिणाम विचित्रा सूत्रप्रपञ्चेनाभिधीयन्ते-तत्र च
मू. (२८०) भरहेरवएसुणंवासेसुपुरिमपच्छिमवजा मज्झिमगाबावीसंअरहंताभगवंता चाउज्जामंधम्मपन्नवेति, तं०-सव्वातोपाणातिवायाओ वेरमणं, एवंमुसावायाओवेरमणं, सव्वातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणा [परिग्गहा] ओ वेरमणं १,
सव्वेसु णं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओ वेरमणं।
वृ. 'भरते’त्यादिसूत्रद्वयं व्यक्तमेव, किन्तुपूर्वपश्चिमवर्जाः, किमुक्तं भवति?-मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमाएव यामा निवृत्तयो यस्मिन् सतथा बहिद्धादाणाओ'त्तिबहिर्द्धा-मैथुनं परिग्रहविशेषः आदानंच-परिग्रहस्तयोद्वेन्द्वैकत्वमथवा आदीयत इत्यादानं-परिग्राह्यं वस्तु तच्चधर्मोपकरणमपिभवतीत्यतआह-बहिस्तात्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात्चतुर्यामताधर्मस्येति, इयंचेहभावना-मध्यमतीर्थकराणांविदेहकानां चचतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजडा वक्रजडाश्चेति, तत्त्वादेवपरिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोद्धुपालयितुंचनक्षमाःस, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धं वर्जयितुंच क्षमा इति, भवतश्चात्र श्लोको॥१॥ "पुरिमा उजुजड्डा उ, वक्कजड्डा य पच्छिमा।
मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए ॥२॥ पुरिमाणं दुव्विसोझो उ, चरिमाणं दुरनुपालए।
कप्पो मज्झिमगाणंतु, सुविसुज्झे सुपालए" इति । अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्चते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानांच भेदान् सूत्रचतुष्टयेनाह
मू. (२८१)चत्तारिदुग्गतीतोपं० २०-नेरइयदुग्गतीतिरिक्खजोणियदुग्गतीमणुस्सदुग्गती देवदुग्गी १, चत्तारि सोग्गईओपं० २०-सिद्धसोंगती देवसोग्गती मणुयसोग्गतीसुकुलपच्चायाति २, चत्तारि दुग्गती पं० तं०-नेरइयदुग्गता तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० तं०-सिद्धसुगता जाव सुकुलपच्चायाया ४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org