________________
२१८
तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च“पंचाईयारोवण नेयव्वा जाव होंति छम्मासा । तेण पर मासियाणं छण्हुवरिं जोसणं कुज्जा" इति,
119 11
आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति तथा परिकुञ्चनम् - अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुञ्चना परिवञ्चना वा, उक्तं च"दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प" त्ति, तथाहि
11911
सच्चित् अचित्तं 9 जणवयपडिसेवियं च अद्धाणे २ ।
सुभिक्खे यदुभिक्खे ३ हट्टेण तहा गिलाणेणं " इति,
तस्या; प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीढादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम्
स्थानाङ्ग सूत्रम् ४/१/२७७
मू. (२७८) चउव्विहे काले पं० तं० पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले ।
वृ. तत्र प्रमीयते-परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकालः, स च अद्धाकालविशेष एव दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वर्त्तीति, उक्तं च"दुविहो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव" इति,
119 11
यथा-यत्प्रकारं नारकादिभेदेनायुः - कर्म्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निर्वृतिःबन्धनं तस्याः सकाशाद्य; कालो - नारकादित्वेन स्थितिर्जीवानां स यथायुर्निर्वृतिकालः, अथवा यथाऽऽयुषो निर्वृतिस्तथा यः कालो - नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति, उक्तं च
119 11
“आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो वत्तइ जो जच्चिरं जेणं " इति,
मरणस्य-मृत्योः कालः- समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरणविशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च
119 11
"कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ । तम्हास कालकालो जो जस्स मओ मरणकालो " इति, तथा अद्धैव कालः अद्धाकालः, कालशब्दो हि वर्णप्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियावलिशिष्टो मनुष्यक्षेत्रान्तर्वर्त्ती समयादिरूपयोऽवसेयः, उक्तं च
119 11
“सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेत्तंमि समयाइ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिरियट्टा" इति ।
द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानां
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
Jain Education International