________________
२२०
स्थानाङ्ग सूत्रम् ४/१/२८१
वृ. 'चत्तारी'त्यादि गतार्थम्, नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'सुकुलपञ्चायाइ'त्ति देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ प्रत्यायातिःप्रत्यागमनं प्रत्याजातिर्वा-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः एवं सुगतः।अनन्तरं सिद्धसुगता उक्ताः ते चाष्टकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह
मू. (२८२) पढमसमयजिनस्स णं चत्तारि कम्मंसा खीणा भवंति-नाणावरणिज्जं दसणावरणिज्जं मोहणिजंअंतरातितं १, उप्पन्ननाणदंसणधरेणंअरहा जिने केवली चत्तारिकम्मसे वेदेति, तं०-वेदणिज्जं आउयं नामंगोतं २, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजंति तं०-वेयणिज्ज आउयं नामंगोतं ३
वृ. 'पढमे'त्यादि सूत्रत्रयं व्यक्तं, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्चसयोगिकेवलीप्रथमसमयजिनस्तस्यकर्मणः-सामान्यस्यांशाः-ज्ञानावरणीयादयोभेदाइति, उत्पन्नेआवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रह:-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽर्हत्वेनाहन्वा रागादिजेतृत्वाजिनः केवलानि-परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते ।
असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतुःस्थानकावतारित्वादाहमू. (२८३) चउहिं ठाणेहिं हासुप्पत्ती सिता तं०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता
वृ. 'चउही'त्यादि, हसनं हासः-हासमोहोदयजनितो विकारस्तस्योत्पत्तिः-उत्पादः हासोत्पत्तिः ‘पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा, तथा भाषित्वा वाचा किञ्चित्तसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति । असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदार्टान्तिकार्थवत्सूत्रद्वयम्,
मू. (२८४) चउविहे अंतरे पं० २०-कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वापुरिसस्सवाचउविहे अंतरेपं०२०-कटुंतरसमाणे पम्हंतरसमाणेलोहंतरसमाणे पत्थरंतरसमाणे।
वृ.'चउविहे' इत्यादि, काष्ठस्यचकाष्ठस्यचेतिकाष्ठयोरन्तरं-विशेषोरूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म-कप्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिःप्रस्तरान्तरं-पाषाणान्तरंचिन्तितार्थप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत, स्त्रिया वा स्त्र्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं-तुल्यमन्तरंविशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं वचनसुकुमारतयैव लोहांतरसमानं स्नेहच्छेदेन परीषहादी निर्भङ्गत्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणवद्वन्धपदवीयोग्यत्वादिना चेति ।
मू. (२८५) चत्तारि भयगा पं०-दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते । वृ.अनन्तरमन्तरमुक्तमितिपुरुषविशेषान्तरनिरूपणाय भृतकसूत्रं, तत्र भ्रियते-पोष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org