SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ स्थानं-१, - उद्देशकः १९ मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया एर्यापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान् एव वक्ष्याम इति। अक्रियावत्त्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैोक्तृत्वमप्यभ्युपगमतमतोभुजिक्रियानिर्वर्तनसामर्थ्य सतिभोक्तृत्वमुपपद्यतेतदेवच क्रियावत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुङ्गे प्रतिबिम्बन्यायेनेति, तदयुक्तम्, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानयोगेऽपिप्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात्प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपायाबुद्धेरेवसुखाद्यर्थप्रतिबिम्बनंनात्मनः, तर्हिनास्य भोगः तदवस्थतवात्तस्येति, अत्रापिबहुवक्तव्यंतत्तुस्थानान्तरादवसेयमिति।उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह मू. (५) एगे लोए। वृ. “एगे लोए' एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यागादिदिग्भेदतया लोक्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्॥१॥ “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्" इति, ____ अथवा लोको नामादिरष्टधा, आह च॥१॥ “नामं ठवणादविए खित्ते काले भवे य भावे य॥ पञ्जवलोए य तहा अट्टविहलोयनिक्खेवो "त्ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकं, काललोकः समयावलिकादिःस, भवलोकोनारकादयःस्वस्मिन् २ भवेवर्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः षडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति। लोकव्यवस्थाह्यलोके तद्विपक्षभूते सति भवतीति तमाहमू. (६) एगे अलोए। वृ. 'एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात् नत्वालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननुलोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपिबाधकप्रमाणाभावात्सम्भावयामोयोऽयंपुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो? येनैकत्वेन प्ररूप्यत् इति, उच्यते, अनुमानादिति, तच्चेदंविद्यमानविपक्षोलोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद्व्युत्पत्तिमताशुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीतिद्रष्टव्यं, यथाघटस्याघटः, व्युत्पत्तिमच्छुद्धपवाच्यश्चलोकस्तस्मात्सविपक्ष इति, यश्चलोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोकइति, अथनलोकोऽलोक इतिघटादीनामेवान्यतमो भविष्यति किमिह वस्त्वन्तरकल्पनयेति?, नैवं, यतोनिषेधसद्मावानिषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्चलोकः सचाकाशविशेषोजीवादिद्रव्यभाजनमतःखल्वलोकेनाप्याकाशविशेषैणैव भवितव्यम्, यथेहापण्डित इत्युक्ते विशिष्टज्ञानविकलश्चेतन एवगम्यते न घटादिरचेतनस्तद्वदलोकेनापिं लोकानुरूपेणेति, आह च॥१॥ “लोगस्सऽस्थि विवक्खो सुद्धत्तणओ घडस्स अघडोव्व । स घडादी चेव मती न निसेहाओ तदनुरूवो "॥ ति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy