________________
स्थानाङ्ग सूत्रम् १/-/६
लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तत्स्वरूपमाहमू. (७) एगे धम्मे।
वृ. एकःप्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्तेऽपिद्रव्यार्थतया तस्यैकत्वात्, जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति॥ धर्मस्यापि विपक्षस्वरूपमाह
मू. (८) एगे अधम्मे।
वृ. 'एगे अधम्मे' एको द्रव्यत एव न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारअयंतु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति,
ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः?,प्रमाणादिति ब्रूमः, तच्चेदम्इह गतिः स्थितिश्च सकललोकप्रसिद्धं कार्य, कार्यं च परिणाम्यपेक्षाकारणायत्तात्मा लाभं वर्तते, घटादिकार्येषुतथादर्शनात्, तथाचमृत्पिण्डभावेऽपिदिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण नघटोभवति यदि स्यात् मृत्पिण्डमात्रादेव स्यात्नच भवति, गतिस्थिती अपिजीवपुद्गलाख्यपरिणामिकारणभावेऽपिनापेक्षाकारणमन्तरेण भवितुर्महतः दृश्यतेचतद्भावोऽतस्तत्सत्तागम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गततिापरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं,
- तथा स्थितिपरिणाम परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्य-शुषिरमभावोवेति, किञ्च-अलोकाभ्युपगमे सतिधमाधम्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च॥१॥ "तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता।
इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ? ॥२॥ लोगाविभागाभावे पडिघाताभावओऽनवत्थाओ।
संववहाराभावो संबंधाभावओ होज्जा" इति । आत्मा च लोकवृत्तिर्धम्मधिमास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह
मू. (९) एगे बंधे
वृ. “एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् सबन्ध इति भावः, सच प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्यसतःपुनर्बन्धाभावाद्वाएको बन्धइति, अथवाद्रव्यतो बन्धो निगडादिभिवितः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः संयोगऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म अथ पूर्व कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org