________________
१८
स्थानाङ्ग सूत्रम् १/२
सामान्यविशेषरूपत्वाद्वस्तुनः,अथब्रूयात्-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्या चिन्त्यमानस्यायोगात्, तथाहि-सामान्यविशेषेभ्योभिन्नमभिन्नंवा स्यात्?,नभित्रमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यं, खरबिषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा चसामान्यमानं वास्याद्विशेषमात्रं वेति, नोकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्थास्यादिति, अत्रोच्यते, नह्यस्माभिःसामान्यविशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपितु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना विशेषाव्यपदिश्यन्ते,तएव चविशेषाउपसर्जनीकृतातुल्यरूपाःप्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह च॥१॥ “निर्विशेषं गृहीताश्च, भेदाः सामान्यमुच्यते।
ततो विशेषासामान्यविशिष्टत्वं न युज्यते ॥२॥ वैषम्यसमभावेन, ज्ञायमाना इमे किल ।
प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि" इति, तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेणशेषात्मनामनात्मत्वप्रसङ्गादितितुल्यंचसरूपमुपयोगः 'उपयोगलक्षणोजीव' इतिवचनात्, तदेवमुपयोगरूपैकलक्षणत्वात्सर्वे एवात्मान एकरूपाःस, एवं चैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, ॥१॥ (उक्तञ्च-) “स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः ।
लोकद्वितयभाविन्यो, नैव साङ्गत्यमियति" ॥१॥(तथा) “नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः।
भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः" इति। आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्मिरपि कैश्चिनिष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावतत्त्वमभिधित्सुः क्रियायाः कारणभूतं दण्डस्वरूपं प्रथम तावदभिधातुमाह
मू. (३) एगे दंडे।
वृ. 'एगे दंडे' एकोऽविवक्षितविशेषत्वात् दण्डयते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति ॥
मू. (४) एगा किरिया।
वृ. तेन चात्मा क्रियां करोतीति तामाह-एगा किरिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात्, करणं क्रिया-कायिक्यादिकेति,
अथवा 'एगे दंडे एगा किरिय'त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकरमाद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वंवधसामान्यादिति, क्रियाशब्देनतुमृषाप्रत्ययाअदत्तादानप्रत्ययाआध्यात्मिकीमानप्रत्यया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org