________________
स्थानं-१, - उद्देशक:
इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव वचनात्, नचास्यागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्चआत्माभावे जातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौ च न प्राप्नुयुरिति आत्मनस्तु सप्रदेशत्वमवश्यमभ्युपगन्तव्यं, निरवयवत्वे तु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्युनुपलब्धिप्रसङ्गश्चेति सप्रदेश आत्मा प्रत्यवयवं चैतन्यलक्षणतद्गुणोपलम्भात्, प्रतिग्रीवाद्यवयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्रव्यार्थतया एक आत्मेति, अथवा एक आत्मा कथञ्चिदिति, प्रतिक्षणं सम्भवदपरापरकालकृतकुमारतरुणनरनारकत्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्वपरपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च119 11 " न हि सव्वहा विनासो अद्धापज्जायमित्तनासंमि । सपरपज्जायानंतधम्मुणो वत्थुणो जुत्तो" त्ति,
किञ्च- 'प्रतिक्षणं क्षयिणो भाव' इत्येतस्माद्वचनात् प्रतिपाद्यस्य यत्क्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सङ्ख्यातीतसमयसम्भूतं, सङ्ख्यातानि चाक्षराणि पदं, सङ्ख्यातपदं च वाक्यं, तदर्थग्रहणपरिणामाच्च सर्वं क्षणभङ्गुरमिति विज्ञानं भवेत्, तच्चायुक्तं समयनष्टस्येति, ॥ १ ॥ (आह च) -“कह वा सव्वं खणियं विन्नायं ?, जई मई सुयाओति ॥ तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्त
॥२॥
नउ पइसमयविनासे जेणेक्वेक्कक्खरंपि य पयस्स । संखाईयसमयइयं संखेजाई पयं ताई
॥३॥
संखेज्जपयं वक्कं तदत्थगहणपरिणामओ होज्जा । सव्वखणभंगनाणं तदजुत्तं समयनट्टस्स "इति,
तथा सर्वयोच्छेदे तृत्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद्, आह च119 11 “तित्ती समो किलामो सारिक्खविवक्खपच्चयाईणि ।
अज्झयणं झाणं भावना य का सव्वनासंमि ?" त्ति,
तत्र तृप्तिः- ध्राणिः श्रमः - अध्वादिखेदः क्लमो - ग्लानिः साद्दश्यं साधर्मं विपक्षो - वैधर्म्यं प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च
119 11
3
१७
“जमणंतपज्जयमयं वत्थु भवणं च चित्तपरिणामं । ठिइविभवभङ्गरूवं निच्चानिच्चाइ तोऽभिमयं ” ति,
॥ २ ॥ ( एवं च) “सुहदुक्खबंधमोक्खा उभयनयमयानुवत्तिणो जुत्ता । एगयरपरिच्चाए सव्वव्यवहारवुच्छित्ति "त्ति,
अथवा-एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमनेकं वाऽस्ति,
2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org