________________
१६
स्थानाङ्ग सूत्रम् १/२ किञ्च-विद्यते अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभासस्यानुभूयमानत्वात्, नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद्, अन्यथान किञ्चनापिवस्तुसिध्येदिति।भवतु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः,अनुमानस्यलिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति,आगमगम्योऽपिनासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, केयमनुपलभ्यमानता?,किमेकपुरुषाश्रिता सकलपुरुषाश्रितावा?, यद्येकपुरुषाश्रिता नतयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनितस्याः सम्भवात्, न हि कस्यचित्पुरुषविशेषस्य घटाद्यर्थग्राहकंप्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो टेष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न ह्यसर्वज्ञेन सर्वेपुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति,
किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, नचायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद्गम्यतएव, आत्मा हिज्ञानादनन्यः, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वञ्चज्ञानस्यनीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञानेस्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वेआत्मागुणीप्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, ॥१॥ (उक्तञ्च) - "गुणपच्चक्खत्तणओ गुणी वि जीवो घडोव्व पञ्चक्खो।
घडओव्व धिप्पइ गुणी गुणमित्तग्गहणओ जम्हा" (तथा)॥१॥ “अन्नोऽनन्नो व गुणी होज्ज गुणेहिं?, जइ नाम सोऽनन्नो।
नाणगुणमित्तगहणे धिप्पइ जीवो गुणी सक्खं ॥२॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पच्चक्खा।
गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं?" त्ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद्, ओदनादिवत्, व्योमकुसुमं विपक्षः, सच कर्ताजीव इति, नन्वोदनकर्तृवन्मूर्तआत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च॥१॥ “जो कत्तादि सजीवो सज्झविरुद्धत्तिते मई हुज्जा।
मुत्ताइपसंगाओ तं नो संसारिणो दोसो।।" त्ति, नचायमेकान्तो, यदुत-लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेनानुमानस्यैव एकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्यग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापिग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तञ्च
“सोऽनेगंतो जम्हा लिंगेहि समं अदिट्ठपुव्वोवि। गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि"
॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org