________________
स्थानं - ४, - उद्देशकः -१
२१३
वृ. 'अत्थिकाय'त्ति अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्य- मूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं, रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तत्पर्युदासादरूपिणः-अमूर्त्ता इति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रं
मू. (२६७) चत्तारि फला पं० तं०-आमे नामं एगे आममहुरे १ आमे नामंएगेपक्कमहुरे २ पक्के नाममेगे आममहुरे ३ पक्के नाममेगे पक्कमहुरे ४, एवामेव चत्तारि पुरिसजाता पं० तं० - आमे नाममेगे आममहुरफलसमाणे, ४
वृ. आमम् अपक्वं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्वं सत् आममधुरं प्राग्वत्, तथा पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-वयः श्रुताभ्यामव्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः- पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्वेऽन्योवयः श्रुताभ्या परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्वमधुर उक्तः, स च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह
मू. (२६८) चउव्विहे सच्चे पं० तं०- काउज्जुयया भासुज्जुयया भावुज्जयया अविसंवायणाजोगे, चउव्विहे मोसे पं० तं०-काय अनुज्जयया भास अनुज्जुयया भावअनुज्जुयया विसंवादणाजोगे, चउव्विहे पणिहाणे पं० तं०-मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं नेरइयाणं पंचिंदियाणं जाव वेमाणियाणं २४, चउव्विहे सुप्पणिहाणे पं० तं०-मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चउव्विहे दुप्पणिहाणे, पं० तं०- मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वैमाणियाणं २४
बृ. ‘चउव्विहे सच्चे' इत्यादीनि गतार्थानि, नवरमृजुकस्य- अमायिनो भावः कर्म्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्मनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना तद्विपक्षेण योगः- सम्बन्धोऽ विसंवादनायोग इति, 'मोसे' त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणिधानंप्रयोगः, तत्र मनसः प्रणिधानम्-आर्त्तरौद्रधर्म्मादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानंप्रयोग उपकरणप्रणिधानं ।
'एव' मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना मेवमेवेति, एकेन्द्रियादीनां मनः प्रभृतीनासम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणिधानञ्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं मनः प्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org