________________
२१२
__ स्थानाङ्ग सूत्रम् ४/१/२६४ ३ वेदेंसु ३ निजरेंसु नि रेति, निजरिस्संति व वेमाणियाणं, जावमेक्कक्के पदे तिन्नि २ दंडगा भाणियव्वा, जाव निजरिस्संति।
वृ. 'जीवाण'मित्यादिगतार्थं, नवरम् चयनं-कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, सचैवं-प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुत्कृष्टायां विशेषहीनं निषिअति, ॥१॥ उक्तंच - "मोत्तूण सगमबाहं पढमाइ ठिईए बहुतरंदव्वं ।
सेसे विसेसहीणंजावक्कोसंति सव्वेसि ।।" इति, बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषानिकाचनमिति, उदीरणम्-अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदन-स्थितिक्षयादुदयप्राप्तस्य कर्मणं उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा-कर्मणोऽकर्मत्वभवनमिति, इह च देशनिर्ज रैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनांचतदकारणत्वात्, क्रोधादिक्षयस्यैवतत्कारणत्वादिति,इहप्रज्ञापनाधीता सङ्ग्रहगाथा॥१॥. “आयपइट्ठिय १ खेत्तं पडुच्च २ नंतानुबंधि ३ आभोगे४।
चिणउवचिणबंध उदीर वेय तह निजराचेव ॥१॥" इति। अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्मवतीति प्रतिमासूत्रत्रयं,
मू. (२६५) चतारि पडिमाओ पं० २० - समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओपं०२०-भद्दासुभद्दामहाभदासव्वतोभद्दा, चत्तारि पडिमातो पं० तं० - खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वइरमज्झा
वृ.तद् द्विस्थानकापीतमपीहाधीयते, चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसतव्या, किन्तुस्मरणाय किञ्चिदुच्यते-समाधिः श्रुतंचारित्रंचतद्विषयाप्रतिमा-प्रतिज्ञाअभिग्रहः समाधिप्रतिमाद्रव्यसमाधिर्वाप्रसिद्धस्तद्विषयाप्रतिमा-अभिग्रहः समाधिप्रतिमा एवमन्याअपि, नवरमुपधान-तपः विवेकः-अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः विउस्सग्गे'त्ति कायोत्सर्गः।
तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा, चतुर्भिश्चाहोरात्रैरिय समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गःसा सर्वतोभद्रा, साच दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा-प्रश्रवणप्रतिज्ञा सा च क्षुल्लिका या षोडशभक्तेन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्यायायववद्दत्तिकवलादिभिराधन्तयोहीनामध्येच वृद्धेति, वज्रमध्या तुयाऽद्यन्तवृद्धा मध्ये हीना चेति।
प्रतिमाश्च जीवास्तिकाये एवेति नद्विपर्ययस्वरूपाजीवास्तिकायसूत्र
मू. (२६६) चत्तारि अस्थिकाया अजीवकाया पं० २०-धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अस्थिकाया अरूविकाया पं० तं०-धम्मत्थिकाए अधम्मत्यिकाए आगासत्थिकाए जीवत्थिकाए। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org